________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाप्यसमलंकृता।
। एकादशः
चतुर्थकालमश्नीयादक्षारलवणं मितम् ॥ गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ १०९ ॥
द्वौ मासावकैकमाहारं भुक्ता द्वितीयेऽहनि सायमश्रीयात् । लवणविशेषेण क्षारग्रहणात्सैन्धवस्याप्रतिषेधः । स्वतन्त्रः क्षारप्रतिषेधो हि द्वन्द्वे सति स्यात् । तत्र वचन५ प्रवृत्तिः पदद्यस्य च लक्षणार्थी युगपदधिकरणतायां द्वन्द्वः । स्थिते विशेषणसमासे
विशिष्टस्यार्थस्य नानुज्ञ संबन्धः । न सासादिलाघवं । मितं स्वल्पमित्यर्थः । न यावता तृप्तिभवति शरीरस्थितिश्च जायते । गोमूत्रस्नानं त्रिष्वपि कालेषु । चतुर्थकालं द्वौमासाविति संबन्धः । एवं स्मृत्यंतरे
" कृतवपनो वसेद्गोष्ठे चर्मणा तेन संवृतः । द्वौ मासौ स्नानमप्यस्य गोमूत्रेण विधीयते ॥ १० . पादशौचक्रियाकार्यमाद्भिः कुर्वीत केवलं । " न चास्य द्वौ मासावित्यनेन संबन्धः
संभवति । स्नानग्रहणं पादपूरणार्थ । स्नानकाले यदि पादाद्यशुद्धिर्भवत्यर्थात्तदुदकेनैव द्रव्यशुद्धिविधिना शोधनीयम् । अत आचमनमपि शुद्धयर्थमुदकेनैव स्नानकालेऽन्यदा मृदा शुद्धिः । सा मृद्वारिक्रमेणैव कर्तव्या । स्नानविधौ गोमूत्रश्रवणादाचमनादौ कः प्रसङ्गः स्नानेऽपि प्रायश्चित्ताञ्जेन शुद्धचर्थम् ॥ १०९ ॥
दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्व रजः पिवेत् ॥
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ।। ११० ॥
यासां गवां स्थाने वमति ताश्चरितुं गच्छन्तीः पश्चाद्गच्छेत् । तच्छन्देन प्रत्यकमीद्यासां गृहे स्थितस्तासां अन्यासां गच्छन्तीनां न भवत्यनुगमनं । ताभिः समुत्थापितं
रजो रेणुरूज़ गच्छन् पिबेत् । एवं तत्रैव ताभिः सह दिवसं वित्दृत्य ताभिरेव २० सह पुनर्गोष्ठमागच्छेत् । शुश्रूषयित्वा कण्डूकर्षणरजोपनादनेनोपगच्छन्नमस्कृत्य जानु
शिरसा प्रणामं कृत्वा वीरासनो वसेत् । भित्तिशय्यादावनिषद्य यदुपविष्टस्यावस्थानं तद्वीरासनम् ॥ ११०॥
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् ॥
आसीनासु तथासीनो नियतो वीतमत्सरः ॥ १११ ॥
तिष्ठन्तीत्येवमादिको विधिर्यत्र काश्चित्तिष्ठन्ति काश्चिद्रजन्ति काश्चिद्वाऽऽसते तत्र भूयसीनां धर्म समाश्रयेत् । वीतो मत्सरो लोभो यस्येति । प्रदर्शनार्थं चैतत् । त्यक्तरागादिमनोदोष इति यावत् । नियतेन्द्रियवचनात् ॥ १.११॥
१ज-र-स्थितैर्वि-।
For Private And Personal Use Only