________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ एकादशः
ब्राह्मणसुवर्णस्तेय एतत्प्रायश्चित्तं । विप्रग्रहणं सर्ववर्णप्रदर्शनार्थ । क्षत्रियादीनामन्यस्य प्रायश्चित्तस्यासमाम्नानात् । मामनुशास्तु निग्रहं करोतु । राजा गत्वा च वक्तव्यः । अत्र च राजशब्दो देशेश्वरवचन एव न क्षत्रियजात्यपेक्षः ॥ ९८ ॥
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ॥ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ १० ॥
मुशलं दण्डविशेष आयसो दारुमयो. वा। सकृत्स्वयमिति विवक्षितं । वधेन शुध्यति सकृत्प्रहारेण वधो मरणफलो वा भवतु मा वाऽस्तु तादृशेन मुशलप्रहारेण शुद्धो भवति। ब्राह्मणस्तु तपसा वक्ष्यमाणेन । अत्रापि ब्राह्मणग्रहणमविवक्षितं । तथा चोत्तरत्र
द्विजग्रहणं । यद्यपि च कृष्णलग्रहणे महापातकं तथापि मरणान्तं प्रायश्चित्तं सवर्णशतहरणे १० द्रष्टव्यं । उक्तं दण्डप्रायश्चित्तं तुल्यरूपेण । तत्र चोक्तं “ शतादम्यधिके वध "
इत्यतोऽर्वाक कल्पना कार्या । यस्तु “ मरणात्पूतो भवति" इति प्रायश्चित्तान्तरं तस्मिन् राजशस्त्र उदुंबर आदद्यात्तस्मात्तं प्रमापयेन्मरणात्पूतो भवतीति विज्ञायते । यदा क्षत्रियादि. हेन्ता स्वामी च गुणवांस्तत्रैतद्विज्ञायते । यदा तु मरणोद्यतस्तदा स्यादिति प्रयोजने प्रयोजनापहारस्तदा वा शिष्टं निष्कालको घृताक्तो गोमयादिना पातप्रभृतिः ॥ १०० ॥
तपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ॥ चीरवासा द्विजोऽरण्ये चरेब्रह्महणो व्रतम् ॥ १०१॥
इति च द्वादशवार्षिकं धर्मानुवादात्तस्यैवातिदेशो न ब्रह्महत्यायाः प्रायश्चित्तान्तरं ब्रह्महणि यद्रतमुक्तं तच्चरेदिति योजना । अपनुनुत्सुरपनेतुमिच्छुः शुद्धिं चिकीर्षतीति यावत् ॥ १०१ ॥
एतैर्ऋतैरपोहेत पापं स्तेयकृतं द्विजः ॥
गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ १०२॥
ननु च वधेन शुध्यति स्तेनस्तपसा चेति द्वयस्य प्राक्तनत्वादेतैरिति बहुवचनं न सम्यक् । एतदेव ज्ञापकं एष निःशेषोक्तानप्यनुक्तान् कल्पेतानुबन्धाद्यपेक्षया गुरुस्त्रीगमनप्रयोजनं गुरुस्त्रीगमनीयं निमित्तमपि प्रयोजनमुच्यते । प्रयोजयति प्रवर्तयतीति॥१०२॥
गुरुतल्प्यभिभाष्यनस्तप्ते स्वप्यादयोमये ॥ मूमी ज्वलंती स्वाश्लिष्येन्मृत्युना स विशुध्यति ॥ १०३ ॥
गुरुतल्पनो गुरुतल्पीति वा पाठः । तल्पीति मत्वर्थीयेन विशिष्ट एव स्त्रीपुंसयोः संसर्ग उच्यते । गुरुराचार्यः पिता चेति । तल्पशब्दो दारवचनः आचार्याणी मत्वे १ण-र-पातुः प्रभृति शः।
For Private And Personal Use Only