SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ८५९ ज्ञापकं चास्याः परिभाषाया गुरोरिति वक्तव्ये तद्गुण इति गुणग्रहणम् । अत्र द्विमोत्तम ग्रहणं च क्षत्रियवैश्ययोर्मधानुज्ञानार्थ । तथा च महाभारते भारतानां यादवानां मद्यपानं तु वयेते " उभौ मध्वासवौं क्षीबो दृष्टों मे केशवार्जुनौ " इत्युत्तर श्लोकादर्थवाद एव । ननु च तथा सर्वा इति बहुवचनं कथं यावता एकमुपमानं द्वे उपमेये अन्नमलत्वं चात्र हेतुमन्निगदोऽर्थवादो मलं हेतुर्यथा शूर्पण जुहोति तेन ह्यन्नं क्रियत इति ॥ ९४ ॥ ५ यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।। तद्राह्मणेन नात्तव्यं देवानामश्नता हविः ।। ९५ ॥ यक्षादयो निन्द्याः प्राणिनो भक्ष्याभक्ष्यविवेकशून्या मांसमभक्षयन् । सुरा चासवश्च सुरासवं " जातेरप्राणिनाम् " इत्येकवद्भावः । आसवोऽत्र मद्यविशेष एव इषन्मयाद्भिन्नं गोबलीवईवदिहोपादानं । देवानामश्नता देवदेयानि हवींषि चरुपुरोडाशा- १० दीनि दर्शपूर्णमासोदितानि ब्राह्मणम्याशितुं युक्तानि न पिशाचाद्यन्न मद्यमांसादीनि ॥ ९५ ॥ अमेध्ये वा पतेन्पत्तो वैदिकं वाप्युदाइरेत् ।। अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ।। ९६ ।। अमेध्ये पतनं देवान्नाशनवदर्थवादः । ननु च वैदिकोदाहरणं कथमकार्य । १५ अत्रोच्यते । तदपेक्षयाऽन्यदकार्य कुर्यादिति । कथं न कार्य अशुचेर्वेदाक्षरोच्चारणप्रतिषेधात् ॥ ९६ ॥ यस्य कायगतं ब्रह्म मद्यनाप्लाव्यते सकत।। तस्य व्यपैति ब्राह्मण्यं शुद्धत्वं च स गच्छति ।। ९७ ॥ अधीर्तवदब्रह्मसंस्काररूपेणावस्थितत्हृदयेनोच्यते तदपेक्षयाऽकार्य कुर्यादिति । २० अतो हृदये मद्येनाप्लाविते स शूद्रतां गच्छति । ब्राह्मण्यवचनं सर्वप्रकारमद्यनिषेधार्थ ब्राह्मणम्य । क्षत्रियवैश्ययोः पैष्टया एव निषेध इति दर्शयति ।। ९७ ॥ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।। अत उर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ९८॥ उक्तप्रयोजनौ पूर्वोत्तर श्लोकौ ॥ ९८ ॥ २५ सुवर्णस्तेय कृतिमो राजानमभिगम्य तु ।। स्वकर्म ख्यापयन ब्रूयान्मां भवाननुशास्त्विति ॥ ९९ ॥ १ फ-ओरादिति : २ व्या. स. २६४१६ । ३ ण-र-येनोच्यते । ४ र-अधीतों वेदो वा स्थितं हृदये. अता हृदये मद्येना For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy