________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः ।
८५७ सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरा पिबेत् ॥
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः॥९०॥ द्विनश्रुतिर्ब्राह्मणाथैव । आह च स्मृत्यन्तरे " ब्राह्मणस्य उष्णां वा पिबेयुः सुराम्” इति । मोहादित्यनुवादोऽग्निवर्णां वर्णश्रुतिग्रहणं सामान्यलक्षणार्थमत एवाह काये निर्दग्धे मुच्यत इति ॥ ९ ॥
गोमूत्रमग्निवर्ण वा पिबेदुदकमेव वा ॥
पयो घृतं वा मरणाद्गोशकद्रसमेव वा ॥ ९१ ॥ अन्यतरप्रायश्चित्तमग्निवर्ण भवत्येव । गोमूत्रादयो द्रव्यविशेषा अन्यप्रकारमरणानिवृत्त्याः । सुरा च पैष्टीति विज्ञेया । तां मुख्येत्युपचरन्ति । अन्यत्र तु प्रयोगो गौणः । कामतः पाने चैतत् । तथा च वक्ष्यति । " अज्ञानाद्वारुणी पीत्वा संस्कारेणैव १० शुध्यति " । अग्निवर्णमित्यग्निस्पर्शमिति ज्ञातव्यं । तथा चाह " आमरणादिति " सुरा च स्त्रीणामपि प्रतिषिद्धा । उक्तं हि वासिष्ठे
" तया ब्राह्मणी सुरापी भवति । न तां देवाः पतिलोकं नयति ॥ इहैव सा भ्रमति क्षीणपुण्या “लोके प्रेत्यावाप्सु च जलभुग्भवति" ॥ ९१ ॥
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृनिशि ॥
सुरापानापनुत्यर्थ वालवासा जटी ध्वजी ॥ ९२ ॥ इदं प्राणात्यय औषधार्थ । अन्येन विहितस्यापि तस्य अज्ञानात्तु तप्तकसहितः पुनःसंस्कारो दर्शयिष्यते । अन्ये तु गौडीमाध्व्योरुपचरितसुराभावयोरिच्छन्ति । तथा च स्मृत्यन्तरे " असुरामद्यपाने चांद्रायणमभ्यसनीयं" । सकृदिति कणपिण्याकयोरुभयोः शेषः । निशायामवालमयं । गोलोमाजालोमादिकृतं वासो जटी शिखयाऽन्यैर्वा २० केशैलजी मद्यघटिकादिनेति ॥ ९२ ॥
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ॥
तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ ९३ ॥ अन्नशब्दो यद्यप्यदनक्रियाकर्मणि व्युत्पाद्यते तथापि ब्रीह्यादिप्रभृतावेव भक्तसक्त्वपूपादौ प्रसिद्धतरप्रयोगस्तथा चान्नेन व्यञ्जनमिति भेदोपपत्तिः। अतः पिष्टविकारत्वात् २५ सुराया अन्नव्यपदेशे लब्धेऽन्नानां मलमिति निवारणोपपत्तौ पैष्टयाः सुरायाः प्रतिषेधे
१ण-मरणनिवृत्त्यर्थ । २ ण-र-क्षयधार्थ । ३ ण-र-अयेन वाद गत्यायितस्य । ४ ज-र
निशायामवलाययं । ५ण-र-भक्त।
फ-न्ये।
For Private And Personal Use Only