________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
प्रत्ययितः प्रत्यक् दर्शनवत् । न तदीयं वचनमपि शङ्कते कश्चित् । अत्र कारणं ब्रह्म वेदम्तदर्थज्ञो ह्यदृष्टेमुपदर्शयन् प्रमाणीक्रियते ॥ ८४ ॥
तेषां वेदविदो युस्त्रयोऽप्येनः सुनिष्कृतिम् ।।
सा तेषां पावनाय स्यात्पवित्रं विदुषां हि वाक् ।। ८५ ।। परिषद्गमनं प्रायश्चित्तिनोऽनेन कथ्यते । तस्याश्च लक्षणं ब्राह्मणा वेदविदत्रयः ५ परिषदिति । ननु च "दशावरा वा परिषत्" इति वक्ष्यति । तथा "एकोऽपि वेदविद्धर्मम्" इति । न दशसंख्या पुरुषाणामुपदिश्यते । किं ताहं गुणानां । तथा “च विद्यो हैतुकस्ती "इति गुणानामेव निर्देशः । " एकोऽपि वेदवित् "इत्यनेन चैतत्प्रकटीकरोति हेतुकत्वाद्गुणांतराभावोऽपि केवलेनैव वेदेन वेदवित्परिषत्वं लभ्यते । अयं तु श्लोकः मंग्व्यानिर्देशार्थः । अत्र यद्यपि वेदविद इत्युपात्तं हैतुक वादयोऽपि गुणा गृह्यन्ते न १० ह्यन्यथा वेदवित्त्वं शिष्टपरिषल्लक्षणं । तत्रैव व्याख्यास्यामः । यदि वेदवित्वं न हैतुकत्वादिना विना भवति कथं तहीदमुक्तम् " एकोऽपि वेदवित् " इति गुणान्तराभावेऽपि वेदवित्परिग्रहार्थमित्येतदपि तत्रैव वक्ष्यामः ! अतः प्रायश्चित्तिना त्रयः समुदिताः पृष्टव्याः । एकस्य कदाचित्प्रमादोऽनवधानं स्यात् तथैतत्परिषदमनं विषाऽप्यदृष्टाथै कर्तव्यमिति । यथा च पवित्रं विदुषां हि वाक् । न च रहस्यप्रायश्चित्ताभावप्रसङ्गः । यत्र कस्या- १५. यविदितं तद्रहस्यं विदिते त परिषद्मनं । तथा चोक्तं " ख्यापनेनानतापेन " इति तदेतदयुक्तं । कल्पनाविषयत्वादस्य शक्ति पापं चावेक्ष्य प्रायश्चित्त विकल्पयेदिति । अनुक्तनि कृतीनां प्रायश्चितं कल्पयेत् । तत्र त्रिभियो कल्पना कृता सा प्रमाणयितन्या ॥८६॥
अतोऽन्यतममास्थाय विधि विप्रः समाहितः ।। ब्रह्महत्याकृतं पापं व्यपोहत्यान्मवत्तया ॥ ८६ ॥
२० मषा ब्रह्मल्याप्रायश्चित्तानामुपसंहारार्थः श्लोकोऽयं । विप्रग्रहणं चात्र सर्ववर्णप्रदर्शनार्थ । व्यपाहन्यपहरति । आत्मवत्तयाऽऽत्मज्ञानतया। शास्त्रार्थकृताभिनिवेश आमवानित्युच्यने । तम्मायम व्यवसायो न शास्त्रार्थमन्यथा वर्तते ॥ ८ ॥
* हत्या गर्भमविज्ञातमेतदेव व्रतं चरेत् ।।
राजन्यवैश्यौ चेजानावात्रेयीमेव च स्त्रियम् ॥ ८७ ॥ २५ गों ब्राह्मण जातीयत्व एव केन गर्भस्य पातनं कारयेत् । अविज्ञातमज्ञातस्त्रीपुरुषविशेषव्यञ्जनं । उपनाते यथायथं स्त्रीपुंसनिमित्तमेव । कथं पुनः स्त्रियामहतायां
१ण-र-अदृशं । २ अ. १२ । ११०-११२ । ३ अग्रे. २२७ श्लो. ४ ण-र-जातीय एवात्वकेन । जन्मप्रभृतिसंस्कारैः संस्कृतामन्त्रवाचया गर्भिणी त्वथवास्यात्तामात्रेयींचविदुर्बुधाः॥१॥
For Private And Personal Use Only