________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[एकादशः
इन्धनाद्यर्थ तु न दोषः :अग्निशुद्धत्वाच्छुष्कसर्वसंभव क्रियारंभः पाकारंभः । " आतुरत्वादेवात्मार्थ न भवेदिति " प्रतिषेधात् । क्रियारंभ एवं व्याख्यायते । क्रियारंभे हि प्रायश्चित्तोपदेशादेव प्रतिषेधः कल्प्येत । न ह्यप्रतिषिद्धप्पायश्चित्तं युक्तं “निन्दितं
च समाचरन ” इति वचनात् । अद्य पुनर्यत्प्रभाषितं तथा सिद्धे प्रतिषेधे प्रायश्चित्त ५ विधीयते । न कल्पनागौरवं भवति तेन । निन्दितान्नादनं न तु गर्हितान्नाद्यतः कुत एतद्विकल्पार्थमभ्यासे तत्प्रायश्चित्तमिदं तु सकृदेव प्रत्ययभेदो वा ॥ ६४ ॥
अनाहिताग्निता स्तेयमृणानामनपक्रिया ।।
असच्छास्त्राधिगमनं कौशीलव्यस्य च क्रिया ।। ६५ ।।
कृतविवाहस्य विदुषो द्रव्यसंपत्तौ जातपुत्रस्य वाऽनाहितामिता साधिकाराविशेषा१० नित्यश्रुतयो नित्याधानस्य अयोजिका इति स्मृतिकारो मन्यते । कथं पुनः श्रुतिप्रयुक्त.
माधानं विहितं कस्यचित्प्रकरणे कथ्यते येनागमोऽप्युच्छिद्येत । स्वतश्च प्रतीयमानाधिकारत्वादग्निनिष्पत्त्यर्थतया कुतोऽधिकारान्तरप्रयुक्तिरग्नयस्तावद्विनियुक्ता “ यदाहवनीये जुहोति" इत्यादिना । न चाधानेन विना तेषां निष्पत्तिरित्यतोऽग्निषु प्रयुक्तेषु तदपि
प्रयुक्तमित्युच्यते । यद्येवमग्निनिष्पत्त्यर्थ तदाहिताग्निष्वधिकारोऽमत्स्वग्निष नाधिक्रियते । १५ न चाधानं नित्यं यावीवादिविधिवदतः कथमनाहिताग्नितादोषो " ऽकुर्वन् विहितं कर्मेति"
विहिताकरणे प्रायश्चितं विहितम् “ अग्नीनादधीतेति" । सत्यं विहितम् । न स्वर्गाय नाधिकारान्तरसंपत्तये । किं तर्हि अग्निनिष्पत्तये । अग्नेश्च ज्ञातप्रयोजना यस्य तैः प्रयोजनं स तेनोपायेनार्जयति । अन्यस्तु नेति का तत्र विहिताकरणाशङ्का येन प्रायश्चित्ती स्यात् । यो हि सुवर्ण नार्जयति कथमसौ दुष्येत । उच्यते । अस्मादेव वचनात्सत्यधिकारेऽग्नयो ऽवश्यमर्जनीया इति गम्यते । स्तेयमुक्तेभ्यो द्रव्येभ्योऽन्यस्य । ऋणानां • चतुर्भिणैः” इत्येतच्छ्रुतेरनुष्ठानं । असच्छास्त्राणि चार्वाकनिम्रन्थाः यत्र न प्रमाण न वेदकर्म फलसंबद्धमापद्यते । कौशीलवत्वं चारणत्वं नर्तनत्वं गायनत्वम् ॥ १५ ॥
धान्यकुप्यपशुस्तेयं मद्यपत्रीनिषेवणम् ॥ स्त्रीशद्भविदक्षत्रवधो नास्तिक्यं चोपपातकम् ॥६६॥
शणसप्तदशानि धान्यानि कुप्यं लोहताम्रादिमयं कुण्डकटाहादि । ननु चाविशेषण पूर्वश्लोके स्तेयमुक्तं परित्हृतमेतत् 'हंसप्रतिषेधवदिति ' । अथवा स्तेयं यदन्यस्मादुद्यमगृहीते समवेनाशोध्यते न हि जातु म्तेयमिति लोकप्रसिद्धं यथा धैर्यादिना अपकरणम् । १ज-र-येनाङ्गं साजेत् । २ फ-पठाहादि ।
For Private And Personal Use Only