________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। पात्रातिशयेन पुण्यस्कन्धोत्कर्ष प्राप्तुमिच्छति तस्यापात्रं पात्रमित्युच्यते । एवंविधे समुत्कर्षेऽनृतं न पुनः स्वल्पवस्तुनि अपेक्षायां सत्यपि समुत्कर्षव्यपदेशे पिशुनमलीकवदिति परच्छिद्रप्रकाशनं गुरोचालीकनिर्बन्धोऽसत्याभिधानेन चित्तसंक्षोभः । — कन्या ते गर्भिणी ' इत्येवमादिना निष्प्रयोजनो द्वेषः। राजकुलात्तेन सह विवादो निर्बन्धोऽनृतादिशंसनं वा । तथा च गौतमो " गुरावनृताभिशंसनम् ” इति पातकसमानि ॥६५॥ ५
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुत्द्वधः॥
गर्हितानाधयोर्जग्धिः सुरापानसमानि षट् ॥५६॥ अधीतस्ववेदस्यानाभ्यासेन विस्मरणं ब्रह्मोज्झता नित्यस्वाध्यायविधेः त्यागो वा । कूटसाक्ष्यं समुत्कर्षादन्यच्चापि सुत्द्वधो मित्रमारणं । गर्हितानाधयोर्हितं शास्त्रप्रतिषिद्धं लशुनाद्यनाद्यममनस्तुष्टिकरं न भोक्ष्य इति कल्प्य यद्भुज्यते ॥ १६ ॥ १०
निक्षेपस्यापहरणं नराश्वरजतस्य च ॥
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ५७ ॥ निक्षेपस्यासारद्रव्यस्यापि । नराश्वशब्दो जातिशब्दो नारीहरणेऽप्येतदेव यो हि दुहितरं दत्वाऽसति नरदोषेऽन्यस्मै पुनर्ददाति तस्याप्येतदेव । तदुक्तं " प्राप्नोति पुरुषोऽनृतम् " इति ॥ १७ ॥
रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च ॥
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ५८ ॥ स्वयोनयो भगिन्य एकोदरसंभूताः । कुमायोऽनूढाः । अन्त्यजा वरचंडालस्त्रियः । सख्युः सखा मित्रं तस्य स्त्रियः । स्त्रीग्रहणं न जायायामेव प्रतिषेधार्थम् । एवं पुत्रस्यान्यापि या अवरुद्धा मैथुनधर्मेण । वयं तु ब्रूमः । सत्यपि ग्रहणेनोढानूढयोर्विषय- २० समीकरणस्य न्यायत्वात्समत्ववचनमेतन्न प्रायश्चित्तनिर्देशार्थ किं तर्हि गुरुत्वख्यापनपरम् । अतश्च गुरुतरं प्रायश्चित्तं भवति । तथा चोक्तं "एनसि गुरूणि गुरूणि लघुनि लघुनि"। यदि ह्येतत्प्रायश्चित्तनिर्देशार्थमभविष्यत्प्रायश्चित्तं निदेशप्रकरण एव वाऽवक्ष्यत् । कौटसाक्ष्यसुत्द्वधयोश्चेह सुरापानसमीकृतयोर्ब्रह्महत्याप्रायश्चित्तातिदेशमुपरिष्टान्न कुर्यात् । " गुरोश्चालीकनिर्बन्ध " इत्येतस्य चेह ब्रह्महत्यासमीकृतस्य पुनरुपरिष्टात् ब्रह्महत्या- २५ प्रायश्चित्ताभिधानात् तथा कुमार्यामिति रेतःसेकस्य गुरुतल्पसमीकृतस्येह पुनस्तत्र गुरुतल्पप्रायश्चित्तविधानाद्गम्यते नेदं प्रायश्चित्तार्थ समीकरणमिति । अन्ये तु मन्यन्ते भेदेन समीकरणं गुरुत्वभावेऽपि वक्ष्यते । न त्याज्यमतः प्रायश्चित्तार्थानामेव सुरापानस्य समीकृतयोश्च कौटसाक्ष्यसुत्द्वधयोर्बह्महत्याप्रायश्चित्तनिर्देशो विकल्पार्थ । सुरापानप्राय
१फ-ण-क्षं । २ फ-दंतान् । ३ फ-ती ४ ण-र-पर । ५ फ-तस्या । ६ वासिष्ठे २२ । १५ ।
७ण-र-न्याय्यं ।
For Private And Personal Use Only