________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४६ मेधातिथिभाष्यसमलंकृता ।
[एकादशः * अन्नहर्तामयावित्वं मौक्यं वागपहारकः ॥ वस्त्रापहारकः श्वैव्यं पड्यन्तामश्वहारकः ॥५१॥ एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः॥ जडमूकान्धवधिरा विकृताकृतयस्तथा ॥ ५२॥
क्षयो नाम रोगो राजयक्ष्मेति वैद्यानां प्रसिद्धस्तेन तद्वान्भवति ब्रह्महत्याविशेषेण । गुरुस्त्रीगामी दुश्चर्मा । क्वथितगन्धवाहिन्या नासिकया युक्तः पिशुनः। एवं सूचको दुर्गन्धवाहास्यः । ननु च सूचकः पिशुन एव । सत्यम् । एकः कल्पयित्वा परदोषान् प्रकाशयति । अन्यस्त सत्यानेवाविदितानिति भेदः । आतिरिक्यमधिकांगता। मिश्रको यो द्रव्याण्य
द्रव्यैस्तदाभासैः संमर्दयति । यथा कुंकुमं कुसुंभेनान्यैरन्यानि । आमयावी यस्य भुक्त१० मन्नं न सम्यक् जीर्यते । मौक्यं वाग्वैकल्यं यत्राप्रतिपत्तिमानपस्मारी । शिष्टं प्रसिद्धं ।
विकृताकृतयः । आकृतिः संस्थानं विकृताऽमनोरमा निन्दितैषां कर्मविशेषेणेति । एषां कर्मणां कुम्भीपाकयमयातनास्थानेषु फलं तदनुभूतवत ईपच्छेषे तस्मिन् कर्मण्युद्रिक्ते च सुकृतेऽदत्तफले फलदानोन्मुखे दुष्कृतस्यासद्भावोऽतः कर्मावशेषोपपत्तिः। ४९।१०।११।१२।
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ॥ निन्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतैनसः ॥ ५३ ॥ निन्द्यैर्हि लक्षणैः कुनखश्यावदन्तादिभिरनिष्कृतैः सह ॥ ५३॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ ५४ ॥
गुर्वगनागमः स्तेयं पतितसंप्रयोगः । सर्ववर्णानां महापातकानि । सुरापानं ब्राह्मणस्यैव । स्तेयं ब्राह्मणसुवर्णहरणं स्मृत्यन्तरात् " ब्राह्मणसुवर्णापहरणे महापातकम् " इति । पातकशब्दः पातयतीति व्युत्पत्त्या सर्वव्यतिक्रमेषु वर्तते। महापातकेषूपपातकेषु च । महच्छब्दो गुरुत्वप्रदर्शनार्थः । तैश्च संयोगमेकैकेनापि । स च वक्ष्यति " संवत्सरेण पतति " इत्यादिना ॥ ५४॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ गुरोचालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ५५ ॥
समुत्कर्ष इति निमित्तसप्तमी । — चणि द्वीपिनं हंति' इतिवत् । समुत्कर्ष प्राप्स्यामीति यदनृतमभिधीयते तद्ब्रह्महत्यया समं । यत्र पूजातिशयो वासनातिशयो
ब्राह्मणत्वेन श्रोत्रियत्वेन महाकुलीनतया वा प्राप्यते तत्रातद्रूपस्तपमात्मानमावेदयति । यो वा *दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् । हिंसया व्याधिभूयस्त्वमरोगित्वमहिंसया॥१॥
वासिष्ठ २०। ४१।
For Private And Personal Use Only