________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। ब्रह्महत्यादयोऽपीति । येषामपि कर्तव्यमिति वचनात् क्रियते न कर्तव्यमिति न क्रियते तेषामपि लौकिकक्रियया प्रवर्तमानस्य निषेधः प्रवर्तमानश्चोच्यते प्रवृत्तः कर्ता कर्तृत्वमबुद्धिपूर्वकमप्यस्ति कूलं पततीति । न चायं गौणकर्तृताभावः । स्वतंत्रः कर्तेति हि स्मर्यते । नेच्छया प्रवर्तते यः स कर्तेति । किं चास्मादेव वचनात्प्रमादकृतो दोषोऽस्ति । प्रायश्चित्तमिति किमपरेण विकल्पितेन ॥ ४६ ॥
* प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ॥
न संसर्ग व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ ४७ ॥ दैवात्स्वीकृतात्प्रमादादित्यर्थः । अन्ये तु देवशब्दस्थाने मोहादिति पठन्ति । मोहादेवाकार्य क्रियते । को ह्यमूर्खः शास्त्रं व्यतिक्रमिष्यति । पूर्वकृतेन जन्मान्तरकृतेन चोपभुक्तफलेन कर्मणा विशेषेण कौनख्यादिलिङ्गाद्यनुमितेनैतदुक्तं भवति । इह जन्मकृते १० व्यतिकमे बुद्धिदर्शनपूर्वमबुद्धिपूर्व वा तथा जन्मान्तरकृतेऽपि लिङ्गानुमेये कर्तव्यं । किं पुनः कुनख्यादीनां " प्रायश्चितं कृछ्रातिकृछौ चान्द्रायणमिति सर्वप्रायश्चित्तानि ” वसिष्ठेन तु यस्य यल्लिङ्गं तेन तदेव प्रायश्चित्तं केनचिदंशेन कर्तव्यमिति पठितम् । अतश्चैव ते सर्वेऽकृतप्रायश्चित्ता न संसर्ग सद्भिर्वर्जयेयुरध्ययनादिक्रिययैकस्थानादिरूपतया संसर्गो यद्यप्युभयाश्रयत्वादन्यतरप्रतिषेधेनोभयोरपि सिद्धिः प्रतिषेधस्तथापि सद्भिस्तैः संसर्गो न १५ कर्तव्य इति पुनः प्रतिषिध्यते । उत्तरत्र कर्तृभेदादेकस्य हि प्रतिषेधे स एव प्रायश्चित्ती स्यान्न द्वितीयः सत्यपि संसर्गेऽत उभयोः प्रायश्चित्तार्थभुभयत्र प्रतिषेधः । सतामसतां चातः श्यावदन्तिप्रभृतिभिरकृतप्रायश्चितैः शिष्टैः सह संसर्गो न कर्तव्यः ॥ ४७ ॥
इह दुश्चरितैः केचित्केचित्पूर्वकृतैस्तथा ॥
प्रामुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ४८ ॥ एतदेवाह । इह दुश्चरितैः केचिदस्मिन् जन्मनि प्रतिषिद्धाचरणैस्तथा पूर्वकृतैः कर्मभिस्तथोक्तं प्राक् । स इदानी रूपविपर्ययप्रपंचो दुष्कृतशेषे चिन्हरूपतोऽनुक्रम्यते॥१८॥
सुवर्णचौरः कौनख्यं सुरापः श्यावदंतताम् ॥ ब्रह्महा क्षयरोगित्वं दौश्चयं गुरुतल्पगः ॥४९॥ . पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ॥
धान्यचौरोऽङ्गहीनत्वमातिरिक्यं तु मिश्रकः ॥ ५० ॥ * प्रायो नाम तपःप्रोक्तं चित्तं निश्चय उच्यते।तपोनिश्चयसंयुक्तं प्रायश्चित्तपिति स्मृतम् ॥१॥
१ण-र-प्रवृत्तिः । २ फ-दर्श । ३ अ. २२ सू. १६ ।
For Private And Personal Use Only