________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
८४४
मेधातिथिभाष्यसमलंकृता ।
अकामतः कृतं पापं वेदाभ्यासेन शुद्धयति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ ४६ ॥
किं पुनरेतानि प्रायश्चित्तानि निमित्तमात्रपर्यवसायीनि सन्ध्योपासनादिवदुत कार्यपर्यन्तानि शारीरशौचवदुत्पन्नदोष निर्घातार्थानि । तत्र केचिदाहुः । न हि कर्म क्षीयते ५ कार्यविरागित्वमेव धर्माधर्मयोः । न हि कर्माणि स्वफलमदत्वा प्रलीयन्ते । तदुक्तं न हि कर्म क्षीयत इति । तस्माद्योऽतिक्रमकारी स ततो नरकफलं भुंक्त एवं प्रायश्चित्तानि यदि न करोति ततस्तदतिक्रमात्प्रत्यवायान्तरोत्पतिः । तदेतदयुक्तं । न हि कर्म चरितव्यमतो नित्यं प्रायश्चित्तं विशुध्यत इति स्वशब्देनैव शुद्ध्यर्थता विहिता । तथापि तैः कृतैरपोहेत पापं स्वयं कृतत्वात् । यदप्युच्यते प्रतिषेधविधिना प्रतिषिध्यमानक्रियाकर्तुः १० प्रत्यवायभागित्वमवगमितम् । न तस्य प्रायश्चितैर्मिथ्यात्वं शक्यते कर्तुं तप्ययुक्तं । यतस्तेन दुःखहेतुता तस्यावगमिता । प्रायश्चित्तेष्वपि तपोदानादि दुःखमस्त्येव । अल्पेन तादात्मिकेन दुःखेनागामिनः संभाव्यमानस्य महतो दुःखस्य निवृत्तिर्युक्तैव । यथा व्याधेस्तिक्तकटुकौषधदानलघ्वाहारादिना यथा व्यतिक्रमं कृत्वा कश्चित्स्वयमागत्य राजनि वेदनं करोति “ इत्येवं कर्मास्मि " इति सोऽर्द्धदण्डभाग्भवति । यस्तु राजपुरुषैर्हठादानीयेत १५ स भूयो दण्ड्यते । एवमुपदेशानामर्थवत्वासिद्धिरतः स्वकार्यविरोधित्वमस्य विहितत्वान्निष्कृतिः प्रायश्चित्तमिति समाख्यातमपि तत्तदेव कृतदोषस्य निर्यातनमप्यकारणं निर्यातो निकृतिरिति उच्यते । एवं प्रायश्चित्तमपि नास्याधिकारप्रतिप्रसवार्थे पंचानामेव पातकानामधिकारोपगमविहितत्वाव्दिजातिकर्मम्यो हानिः पतनमिति । न चात्र वेदाभ्यासोऽकामतः कामतस्तप इति विषयविभागो बोद्धव्यः । उभयार्थोभयत्रोपदर्शनार्थत्वात् । २० निमित्तोपदेशकरणे पठितत्वात् । ब्रह्महा द्वादशेत्यादि प्रायश्चित्तानामुपक्रम्यमाणत्वात् । तस्मादकामतो लघुप्रायश्चित्तं कामतो गरीय इति श्लोकस्य तात्पर्यम् ।
1
ननु चाकामतो नैव तस्य कर्तृत्वं बुद्धिपूर्वं कुर्वन्कर्त्तेत्युच्यते । यथा च लौकिको दैवेनकार्यते । किमयं करोतीति किं च लिप्सया यत्र प्रवृत्तिस्तत्र प्रतिषेधः । यो हि मद्यपः स्पृहयति स पिपासुं न कदर्थयैति ' मा पासीः सुराम् ' इति । यस्तु जलार्थी २५ जलबुद्धयाँ सुरां पीतवांस्तस्याजानतो नापराधो न हि तस्य सुरालिप्सया प्रवृत्तिः ।
अथोच्यते विधिलक्षणप्रवृत्तिर्न निषिध्यते । सत्यं । भवत्वर्थलक्षणा । न तु मध्ये तर्ह्यदकेन च सर्वस्यार्थ लक्षणायाः प्रतिषेधः । केचिदाहुः । प्रत्यवायपर्यन्तो विधिर्विषभक्षणवन्निषेध शास्त्रार्थस्तेषामचेोद्यमेतद्विषमविशेषेणोपात्तं ज्ञानतोऽज्ञानतश्च मरणाय कल्पत एव । एवं
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ एकादशः
1
१ ण-र-यद्यप्युच्यते । २ ण - तदेतपयुक्तं । ३ फ- स्वयं । ४ फ-कायो हि । ५ फ- कदर्थति । ६ फ-यसुरी ।