________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
श्रुतिसिद्धयर्था कल्पनैषा । यद्यपि स्वर्गादिकल्पनानामपि तथार्थलाभस्तथापि यावज्जीवादिपदविरोधात्प्रयवायपरिहारार्थताऽपि स्यात् । उक्तं
___“भयाद्धि यादृशी पुंसां प्रवृत्तिरुपजायते । न तादृशी भवेदत्र विधिकोटिशतैरपि "|| तस्मादकुर्वन्विहितम् इति नित्यं कर्मेति द्रष्टव्यं ।
ननु चाशुचिस्पर्शनादौ न नित्यावेदि किंचित्पदमस्ति यावज्जीवमित्यादिवत्। किमत्रान्येन ५ पदेन निमित्तं विशेषयेत् । श्रुतं तस्य॑ च तन्निमित्तेन कर्तव्यता नाम प्रतीयते। नाधिकारान्तरं प्रत्यपेक्षायों जायते यदा निमित्तसंविधानं तदा कर्तव्यमित्युपगमैर्नित्यतासिद्धिरग्निहोत्रादावपि न नित्यशब्दोऽस्ति निमित्यनित्यत्वात् । प्रसज्जन्नविदितत्वेषु विषयेषु संस्कृतान्नभोजनचन्दनानुलेपनादिषु तात्पर्यत आसेवाप्रसङ्गो विषयाभिलाषपरतेति यावत् । ___ ननु चैतदपि प्रतिषिद्धम् " इन्द्रियैः सुखलुब्धेषु न प्रसज्येत कामत" इति स्नातक- १० व्रताधिकारान्नायं प्रतिषेध इति मन्यते । व्रतशब्दाधिकारे हि तत्र प्रतिषेधकः संकल्पविशेषो हि मानसस्तत्रोपदिश्यते इदं मया न कर्तव्यमिति । अथवा कश्चिदल्पप्रतिषेधे न तुल्यतां मन्येत पदार्थस्तावदयं न निषिध्यत इति मन्यमानोऽतः समानीक्रियते । अथवा सामान्ये तद्भूतस्यापि विशेषस्य पृथगुपदेशो दृष्टः प्राधान्यख्यापनार्थ यथा ब्राह्मणा आयाता वसिष्ठोऽप्यायात इति । प्रायश्चित्तीयते प्रायश्चितशब्दो रूढिरूपेण विशिष्टे नैमित्तिके वर्तते । १५ तदेतीच्छति वेति कर्त्तव्यो “ व्यत्ययो बहुलम् ” इति ( व्या. सू. ३।३।८५ ) । नर इति वचनं चातुर्वाधिकारार्थम् ॥ ४४ ॥
अकामतः कृते पापे प्रायश्चितं विदुर्बुधाः ।
कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ४५ ॥ कामकारकृतेऽप्यतिक्रमे प्रायश्चित्तगौरवार्थमिदमुच्यते । अकामतः कृत इति २० प्रमादकृते पापे शास्त्रव्यतिक्रमे प्रायश्चितमाहुः कस्य पुनर्हेतोविधिः प्रतिशास्त्रमतिक्रम्याकार्ये प्रवर्तते स प्रायश्चित्तमाचरिष्यत इति । कोऽत्र विशिषहेतुस्तस्मात्कामकृते दोषे प्रायश्चित्तं शास्त्रानर्थक्यमिति मन्यन्ते । एवं पूर्वपक्षभङ्गयोपन्यस्यति । कामकारकृतेऽपीति शब्दात्कामतोऽकामतश्च कृते व्यतिक्रमे प्रायश्चित्तं कर्त्तव्यमिति शास्त्रार्थः। श्रुतिनिदर्शनादिति वैदिकलिङ्गनिदर्शनमुपहयंब्राह्मणमुपकर्तव्यं । " इन्द्रो यतीन् शालावृकेभ्यः २५ प्रायच्छत् " । न च श्वभ्यो दानं यतीनामकामतः संभवति । उपहव्यं प्रायश्चित्तार्थ प्रजापतिरिन्द्राय प्रायच्छदिति स्पष्टार्थः ॥ ४५ ॥
१ ख-सस्यवनिमित्तेन कर्तव्यतामब्रवीदित्यनेनाधिकारांतरं प्रत्यपन्नाया जायते । २ ण-र-याजयते यदा । तदा निमित्त । ३ ण-र-प्रसजश्च । ४ ण-र-संस्कृतभोजन । ५ फ-विनिमयः कर्तव्यो । ६ण-र-हन्य। ७ ण-र-इंद्रः।
For Private And Personal Use Only