SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । प्राजापत्यमदत्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । अनाहितानिर्भवति ब्राह्मणो विभवे सति ॥ ३८॥ अन्याधेयेऽश्वो दक्षिणा दातव्या। प्राजापत्यग्रहणं स्तुत्यर्थं । अथवा नात्युत्कृष्टो नातिनिकृष्टः प्राजापत्यः । अथ च लौकिका ईदृशे वस्तुनि प्रजापतिशब्दमुदाहरन्ति । विभवे सतीति वचनादसंपत्तावददद्भवत्येवाहिताग्निः ॥ ३८ ॥ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः। न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन ॥३९॥ यावती दक्षिणा विहिता ततो न्यूना दीयते यत्र सोऽल्पदक्षिणो परिक्रयः किल दक्षिणा स्वल्पेन चेत्परिक्रयेण कर्मकरो लभ्यते किमिति बहु दीयते लोक इव वाहादीनां पणलभ्यं हि कः प्राज्ञः क्रीणाति दशभिः पणैादशशतदानं तत्फलमयस्त्वायेति १. मन्यामनस्य प्रतिषेधः । ये तु स्वल्पदक्षिणा उत्पत्त्यैव च सोमे दक्षिणेति ऋतुमन्तो न तन्निषिध्यते ॥ ३९ ॥ * इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् ॥ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ ४० ॥ पूर्वविध्यतिक्रमे फलकथनम् ॥ ४० ॥ अग्निहोत्र्यपविध्यानीन्ब्राह्मणः कामकारतः ।। चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत् ॥ ४१ ॥ अपविध्य त्यक्त्वा त्यागश्च नित्यानामग्निहोत्रादीनां अकरणमुद्वापनं च प्रसङ्गादत्र प्रकरणात्प्रायश्चित्तोपदिशोऽग्नीनिति बहुवचननिर्देशात् गृह्याग्नित्यागे कल्पना कार्या । वीरहत्यासममिति श्रुतिः " वीरहा था एष देवानामिति " कामकारवचनादकामत्यागे २० कल्पनैव ॥ ४१ ॥ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते ॥ ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ४२ ॥ शूद्रादधिगतेनार्थेन प्रीत्यादिनाऽन्याधेयं न कर्तव्यमिति व्याचक्षते न तु प्रवृत्त . कर्मणो नित्यकर्मानुष्ठानं प्रतिषिध्यते। तथा चोक्तं न शूद्राद्भिक्षित्वाऽनुष्ठानं करणीयमयाचित- २५ लाभे तु नास्ति दोषः प्रवृत्तकर्मणस्तदर्थ तथा चासत्प्रतिग्रहादात्मवृत्तिरेका प्रतिषिद्धा । नित्यानि कर्माण्यम्यनुज्ञातान्यतः शूद्रधनेन प्रार्थितलब्धेन वाऽविशेषामिधानसामर्थ्या• अमहीनो पहेद्राष्ट्र मन्त्रहीनस्तु ऋत्विजः। दीक्षितं दक्षिणाहीनो नास्ति यज्ञसमो रिपुः॥१॥ १ण-र-श्रुति पुलिंगा। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy