SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४० मेधातिथिभाष्यसमलंकृता । [ एकादशः गिरसग्रहणं। न पुनरन्येषु वेदेष्वननुज्ञातं । अथवाऽभिचारश्रुतयोऽथर्वाङ्गिरसशब्देनोच्यन्ते । अर्थाथर्वणशब्दा एवंविध एवार्थे प्रयुज्यन्ते " यज्ञोऽथर्वणवित्काम्य" इति ॥ ३३ ॥ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ॥ धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ ३४ ॥ पूर्वशेष एव ॥ ३४ ॥ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ॥ तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ ३५॥ प्राग्व्याख्यातोऽयं । तस्मै ब्राह्मणायाभिचरेण निगृह्यतामयमित्यकुशलं न ब्रूयात न शुष्कां गिरमीरयेत् । वाग्दण्डधिग्दण्डयोरपि प्रतिषेधः । अथवा सर्वेषां वर्णानां न ब्राह्मणः क्षोभयितव्यो यस्त्रयीविद्याप्रभावेण शक्तः स्वयं निग्रहीतुं । विधाता स्रष्टा अन्यस्य राज्ञः । शासिता निग्रहीता। वक्ता हितान् । अतो मैत्रस्तस्मात्सर्वप्रशक्तियुक्तत्वान्न दुर्बलोऽयमित्यवमन्तव्यः ॥ ३५ ॥ न वै कन्यां न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नाों नासंस्कृतत्तथा ॥ ३६ ॥ अग्निहोत्रे ऋत्विग्वरणस्य समाम्नानात् जुहुयाद्धावयेद्वेति स्त्रीपुंसयोरविशेषण क्षीरहोतृताप्राप्तौ कन्यायुक्त्योः प्रतिषेधः । एवमाहुतिद्वयमात्रविधिज्ञस्याल्पविद्यस्य बालिशस्य वा प्राप्तिः प्रतिषिध्यते । आर्को व्याधिना असंस्कृतोऽनुपनीतः । एतच्चायुक्तं "श्रौते ह्यग्निहोत्रे स्वयं पर्वणि जुहुयात् ऋत्विजामेक इतरेषां कालमिति" समाचरन्ति न च स्त्रीणामात्विज्यसंभवोऽतो गृह्याग्निविषये कन्यायुवत्योः प्रतिषेधो जातपुत्रायाः प्रास्त्यर्थ इति २. वर्णयन्ति । तथा चान्येपि सूत्रकाराः “ कामं गृह्येऽग्नौ पत्नी जुहुयात्सायंप्रातहाँमाविति" अन्ये तु "वैतानकुशल" इति वचनात्रेताग्निविषयमेवेदं मन्यन्ते । वितानो विहारः । स च श्रौतेष्वग्निषु संभवति । न च तत्र स्यादीनां प्राप्तिर्न त्वविदुषां विशिष्टानामेव पुंसामाविज्य. विधानात् । अतोऽग्निहोत्रग्रहणं सर्वकर्मणां होतृग्रहणं च सविनां प्रदर्शनार्थ । अतः श्रुत्यर्थानुवादमात्रमेषा स्मृतिः ॥ ३६ ॥ नरके हि पतन्त्येते जुहृतः स च यस्य तत् ॥ तस्माद्वैतानकुशलो होता स्यावेदपारगः ॥ ३७॥ एते कन्यादयो जुहतो नरकं गच्छन्ति । स च यजमानो हावयिता ॥ ३७|| १फ-पात्ताः । २ फ-अथवा । ३ ण-र-माः । ४ ण-र-वा । ताद्ध कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ।। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy