SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ८३९ वसन्ते सोमस्तेषामसंभवे धनाभावादिदोषेण निष्कृत्यर्थ नित्यस्याकरणे यो दोषस्तनिवृत्यर्थं श्रुतेऽस्मिन्निमित्तेऽन्यकर्म समामनन्ति । तत्र केचित्समुच्चयं मन्यन्ते सत्यप्येककार्यत्वे प्रमाणभेदेन विधिनाऽत्र तदयुक्तं । तथा च ब्रह्महत्याप्रायश्चित्ते श्रौते स्माते च स्वशब्देन विकल्पं वक्ष्यति " अभिनिद्विश्वजिद्भयां च " इति ॥ २७ ॥ आपत्कल्पेन यो धर्म कुरुते नापदि द्विजः । स नामोति फलं तस्य परत्रेति विचारितम् ॥ २८ ॥ आपत्कल्पप्रतिनिधिं वैश्वानरी वा विद्यमानधनो यो गौणपक्षमाश्रयति तस्य न सोऽर्थः सिध्यति ॥ २८ ॥ विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः॥ आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः ॥ २९ ॥ एष एवार्थः । आपदि प्रतिनिधिराश्रयितव्यो न संपदि ॥ २९ ॥ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ ३० ॥ अयमपि पूर्वशेषोऽर्थवादः । सांपरायिकं पारलौकिकम् ॥ ३० ॥ न ब्राह्मणो वेदयेत किंचिद्राजनि धर्मवित् ॥ स्ववीर्येणैव तान् शिष्यान्मानवानपकारिणः ॥ ३१ ॥ निमित्तेऽभिचारो न दोषायति श्लोकार्थः । न त्वभिचारो विधीयते न च राजनि वेदनं प्रतिषिध्यते । केवले सति निमित्तेऽभिचरितुं प्रवृत्तो राज्ञा न किंचिद्वक्तव्यः । तथा वक्ष्यति " विधाता शासिता वक्ता" इति । " तस्मै नाकशलं ब्रूयात् " इति राजेति " प्रीतयेऽभिछिन्द्यात्" इत्यपि । सत्यपि विधौ राजनि निवेदयेन्न च प्रतिषेध उपसंहार- २० श्लोकार्यालोचनया अतत्परमवतिष्ठते निमित्तानि चोक्तानि "भार्यातिक्रमकारी" इत्यादीनि । किंचित्पीडानिमित्तमनेन मे कृतमिति राज्ञे निवेदयेद्धर्मवित् अभिचारविधिज्ञः । स्ववीर्येण मन्त्राभिशापाभ्यां । तत्रैवोत्तरश्लोकार्थः ॥ ३१ ॥ स्ववीर्याद्राजवीर्याच्च स्ववीर्य बलवत्तरम् ।। तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन्द्विजः ॥ ३२ ॥ राना कदाचिदनिपुणतया न निग्रहेण प्रवर्तेत स्वतस्तु न कदाचिदुपेक्षेति स्ववीर्य बलीयः॥३२॥ * श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् ॥ वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन्दिनः ॥ ३३ ॥ किंतत्स्ववीर्यमिति शङ्कानिवृत्त्यर्थोऽयं श्लोकः । श्रूयन्त इति श्रुतयः। अथर्वणवेदे येऽभिचारप्रकाराः श्रुतास्ते कर्तव्या इत्यर्थः । बाहुल्येन तत्राभिचाराणां विधानात् अथर्वा* तवस्त्रं सर्ववर्णानामनिवार्य च शक्तितः । तपोवीर्यप्रभावेण अवध्यानपि बाधते ॥१॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy