________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
२५
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हिचित् ॥ यजमानो हि भक्षित्वा चण्डालः प्रेत्य जायते ॥ २४ ॥
भिक्षणमत्र निषिध्यते । अयाचितोपपन्नं तु न दुष्यति । तथा चोक्तं “अयाचितोपपन्नान्नां द्रव्याणां यः प्रतिग्रहः । विशिष्ट लोकशास्त्राभ्यां तं विद्याद्प्रतिग्रहम् " ॥ इति । यज्ञार्थोऽयं प्रतिषेधो न तु भृत्यभरणे । केचित्पूर्वशेषमेव मन्यन्ते । भिक्षणे दोषदर्शनादुपायान्तरेणोक्तमादानम् ॥ २४ ॥
यज्ञार्थमर्थं भक्षित्वा यो न सर्व प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ।। २५ ।। भिक्षितस्य यज्ञार्थं परिशेषितस्य कार्यान्तराय फलं काकता भासता प्राप्तिः ॥ २५॥ देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।।
स पापात्मा परे लोके गृधोच्छिष्टेन जीवति ॥ २६ ॥
1
यागशीलानां त्रयाणां वर्णानां यद्वित्तं तद्देवस्त्रं ब्राह्मणस्यायागशीलस्यापि यत्स्वं तद्ब्राह्मणस्वमिति । एवमपि श्लोको गच्छत्येव । किंतु अर्थवाद श्लोकोऽसौ । धनं यज्ञशीलानामिति न चौर्यादिशब्दवच्छब्दार्थपरिभाषापरोऽतोऽन्यथा व्याख्यायते । देवानुद्दिश्य १५ यागादिक्रियार्थं धनं यदुत्सृष्टं तदेवस्वं मुख्यस्य स्वस्वामिसंबन्धस्य देवानामसंभवात् । न हि देवता इच्छया धनं नियुञ्जते । न च परिपालनव्यापारस्तासां दृश्यते । स्वं च लोके तादृशमुच्यते । तस्माद्देवोद्देशेन यदुक्तं नेदं मम देवताया इदमिति तदेवस्वं । तच्च दर्शपूर्णमासादियागेष्वग्न्यादिदेवताभ्यश्चोदितं शिष्टसमाचारप्रसिद्धचैव गौणोपाय दुर्गायागादिषु । ननु चतुर्भुजादिप्रतिमासंबन्धि लोके देवस्वमुच्यते । लोकप्रसिद्धश्च २० शब्दार्थः शास्त्रे ग्रहीतुं न्याय्यः । स्यादेवं यदि देवस्वशब्दो निर्भागः प्रसिद्धिमुपेयात् । देवानां स्वं देवस्वमित्यवयवप्रसिद्धया समुदायार्थः प्रकृष्टो न च वाक्यान्तरप्रकल्पना प्रमाणेनाप्यस्ति मुख्यं चतुर्भुजादीनां देवत्वं प्रतिमाव्यवहारेणैवापहृतम्। न च यर्युक्तलक्षणमस्ति अथ समाचारतो देवस्वं भवतु । स्वस्वामिभावस्तावन्नास्ति । यथोक्तेन च प्रकारेण स्वव्यवहारोपपत्तिरिति शिष्टं द्वितीये ॥ २६ ॥
[ एकादश:
For Private And Personal Use Only
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
कप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥ २७ ॥
वैश्वानर्या इष्टेर्गृह्यस्मृतिभ्यः स्वरूपमवसातव्यं । समाप्ते वर्षे द्वितीयवर्षस्य प्रवृत्तिरद्वपर्ययः । लृप्तानां विहितानां पशुसोमानां नित्यानां षाण्मास्यः सांवत्सरः पशुर्नित्यं
-र-योक्त ।