________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। खलात्क्षेत्रादगाराद्वा यतो वाप्युपलभ्यते ॥
आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ १७ ॥ यतो वापीति आरामादेरपि आख्यातव्यं पृच्छत इत्येव यदि पृच्छतीति वचनं न हठात्पुनः प्रेषणादिना प्रश्नमसौ कारयितव्यः । अथवा पृच्छते धनस्वामिने यदि पृच्छति राजेति राजपुरापनीत एव विषयभेदो दर्शयितव्यः । तथा च गौतमः ५ (अ.१८सू.३०) आचक्षीत राज्ञा पृष्ट" इति । भक्तच्छेदे यज्ञप्रतिबन्धतः प्रकरणविशेषादुमयत्रायं विधिज्ञेयः ॥ १७॥
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन ॥
दस्युनिष्क्रिययोस्तु स्वमजीवन्हर्तुमर्हति ॥ १८ ॥ क्षत्रियेणेति क्षत्रियग्रहणं वैश्यशूद्रयोरपि प्रदर्शनार्थ । कदाचनेति महत्या. १. मापदीत्यर्थः। दस्युनिष्क्रिययोर्ब्राह्मणयोरेव दस्युस्तस्करो निष्क्रियस्त्वकर्मानाश्रमी ॥१८॥
योऽसाधुभ्योऽर्थमादाय साधुम्यः संप्रयच्छति ।।
स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ १९ ॥ प्लवः समुद्रतरणः । उभौ यस्यापहरति । शेषोऽर्थवादः ॥ १९ ॥
यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः ॥
अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ २० ॥ अयमस्यार्थवाद एव । गुणवद्भयो नापहर्तव्यं निर्गुणेभ्यस्तु न दोषः ॥ २० ॥
न तस्मिन्धारयेद्दण्डं धार्मिकः पृथिवीपतिः ॥
क्षत्रियस्य हि बालिश्याब्राह्मणः सीदति क्षुधा ॥ २१ ॥ अस्मिन्निमित्ते चौरत्वेनानीतेभ्यो राज्ञा दण्डो न कर्तव्यो यतस्तस्यैव बालिश्या- २० न्मौात् क्षुधाऽवसीदन्ति । क्षुधेत्यविवक्षितमुभयोः प्रकरणादर्थवादत्त्वाच्च ॥ २१ ॥
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः ॥
श्रुतशीले च विज्ञाय वृत्तिं धा प्रकल्पयेत् ॥ २२ ॥ _धा वृत्तिर्यया नित्यकर्माण्यपि संपद्यन्ते क्षीणकोशेनापि महिषीराजपुत्रादिकल्पिताहायाद्विहिताच्च धनाच्च किंचिदवकृष्य दातव्यमिति । स्वकुटुम्बादित्यादिना २५ महाधनस्यैव राज्ञोऽयं विधिः । सर्वरत्नानीति वचनात् ॥ २२ ॥
कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः॥
राजा हि धर्मषड्भागं तस्मात्मामोति रक्षितात् ॥ २३ ॥ स्पष्ट्रार्थोऽयं श्लोकः ॥ २३ ॥
For Private And Personal Use Only