SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [ एकादशः सत्यप्यसोमपे कुटुंबाद्हादित्यर्थः । गृहाद्धि चौर्य दोषवत्तरमतस्तदनुज्ञायते । न पुनरप्येवमेव नियमोऽन्यतोऽपि यत्खलादेः संपद्यते तत्कर्तव्यमेव । वक्ष्यति च " खलात्क्षेत्रादगारावति " ॥ ११ ॥ १२ ॥ आहरेत्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ॥ न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ १३ ॥ वैश्यासंभवे शूद्रादप्याहर्तव्यं । त्रीणि वा द्वे वेत्यङ्गप्रकरणादङ्गानि वेदितव्यानि । अत्रार्थवादो न हि शूद्रस्येति । यद्यपि पूर्वमनेकोपायकृतमाहरणं विहितं तथापि भिक्षणमत्र नास्ति । न यज्ञार्थ धनं शूद्राद्विप्रो भिक्षतेति । ननु च स्मृत्यन्तरेऽविशेषेण शूद्रधनेन यागः प्रतिषिद्धः । अस्योपदेशस्य सामर्थ्याच्छूद्रात्प्रतिगृह्णीतेति द्रष्टव्यम् । अन्ये त्वाहुः । ब्राह्मणेन स्वीकृतत्वान्नैव तच्छूद्रधनमिति । यस्तु प्रतिषेधः स शूद्रस्य शान्तिकपौष्टिकादि येन धनेन करोति ऋत्विग्वत्तत्र द्रष्टव्यः । इह तु भूतपूर्वगत्या शूद्रधनव्यपदेशोऽस्य स्यात् । सांप्रतिकस्याभावे च सा ॥ १३ ॥ योऽनाहिताग्निः शतगुरयज्वा च सहस्रगः॥ तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ १४ ॥ १५ ब्राह्मणक्षत्रियाभ्यामप्येवंविधाभ्यामाहर्तव्यमिति श्लोकार्थः । गोग्रहणं तावत्परिमाणधनोपलक्षणार्थ । अयज्वाऽसोमयाजी ॥ १४ ॥ आदाननित्याच्चादातुराहरेदप्रयच्छतः ।। तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ।। १५ ॥ अयं सर्ववर्णविषयः श्लोकः । आदाननित्यो यः सर्वकालं कृषिप्रतिग्रह२० कुसीदादिभिर्धनमर्नयति न च ददाति तत उपायान्तराण्याश्रयणीयानि । अदातुरित्ययागशीलस्यापि द्रष्टव्यम् ॥ १५ ॥ तथैव सप्तमे भक्ते भक्तानि षडनश्नता ॥ अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ १६ ॥ आत्मकुटुम्बावसादेऽपि पूर्ववत्परादानं कर्तव्यं । अश्वस्तनग्रहणादेकदिनवृत्त्यर्थ२५ मेवानुजानाति । नाधिकं हीनकर्मण इति कर्मार्थ स्मृत्यंतरे " हीनादादेयमादौ स्यात्तदलाभे समादपि । असंभवे त्वाददीत विशिष्टादपि धार्मिकात् ॥" सप्तमे भक्ते व्यहं येन न भुक्तं चतुर्थेऽहनि प्रातर्भोजनार्थ परादाने प्रवर्तेत । सायंप्रातर्भुञ्जीतेत्यहन्यहनि भक्तद्वयं विहितम् ॥ १६ ॥ १फ-ज्ञो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy