SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ] मनुस्मृतिः । काम्यविषयता स्फुटतरा प्रतीयते । स पीतसोमपूर्वोऽपि अनेन प्रथमयज्ञस्यावश्यकर्तव्यतां दर्शयति । संपीतत्वाच्चार्थवादोऽयं । न पुनरपीतसोमस्य प्रतिषेधः ॥ ८ ॥ शक्तः परजने दाता स्वजने दुःखजीविनि ॥ मध्वापातो विषास्वादः स धर्मप्रतिरूपकः || ९ || यः स्वजनो भृत्यामास्यमातृपितृपुत्रदारादिस्तस्मिन् दुःखजीविनि यः परजने यशोर्थ ददाति तस्यासौ विषास्वादः आपाते सन्निपाते मधुरो यथा विषैस्यास्वादः सन्निपातमधुरो विपाकविरसो मरणफलत्वादेवं तादृशं दानं यद्यपि संप्रति यशः सुखं जनयत्यमुत्र प्रत्यवायोत्पत्या विषास्वादसमं संपद्यते तदेवाह धर्मप्रतिरूपकोऽसौ सदृशो न धर्मः । शुक्तिरिव रजतज्ञानस्य ॥ ९ ॥ * भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् ॥ तद्भवत्यसुखोदर्क जीवतच मृतस्य च ।। १० ।। पूर्वस्य निन्दार्थवादोऽयं । भृत्या व्याख्याताः । उपरोधो भक्तवस्त्रादिना यथोपयोगमाहरणं । और्ध्वदेहिकं परलोकप्रयोजनमसुखोदर्कमुदर्कः आगामी कालः । सोऽस्य दानस्यासुखोदकै भवतीति प्रयोजनं सिद्धमेव ॥ १० ॥ यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः ॥ ब्राह्मणस्य विशेषेण धार्मिके सति राजनि ॥। ११ ॥ यो वैश्यः स्याद्वहुपशुहिनऋतुरसोमपः ॥ कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये ॥ १२ ॥ ८३५ For Private And Personal Use Only ५ ܘܐ १५ अत्राङ्गहरणान्न केवलं सर्वासां दक्षिणानामसंपत्तौ वैश्यानामिदमाहरणं विधीयते । अपि च तस्मिन्नपि पश्वादावाहरेदिति तत्स्वीकारोत्पत्तिमात्रमुच्यते । नोपायविशेषः । अतश्च २० याञ्चयाविनिमये चौर्येणैवापहर्तव्यं । न च चौर्येण साम्यं नोत्पद्यत इत्युक्तं । नैष दोषः । इह स्वशब्देनैवोक्तं हर्तव्यमिति । एवं ह्याह कर्तव्यं हीनकर्मण इति । अयं वाऽपहारः प्रागारब्धयागस्य सर्वाङ्गोपेतस्यैकाङ्गासंपत्तौ प्रारिप्स्यमानस्य वेति न विशेषहेतुरस्ति ब्राह्मणस्य विशेषेणेतिवचनात्क्षत्रियवैश्ययोरप्यस्ति तदेकाङ्गग्रहणमस्मिन्निमित्ते । ननु कः क्षत्रियो याचेदिति क्षत्रियस्य याञ्चा प्रतिषिद्धा अत्यल्पमिदमुच्यते ब्राह्मणस्यापि २५ चौर्यं निषिद्धं तस्मात्तस्मिन्निमित्ते नास्त्यर्जनोपायनियमो | धार्मिके सतीत्यनुवादोऽयं । यो हि धर्मज्ञो राजा तस्मिन्निमित्ते चौर्य विहतमिति । अन्यस्य तु निगृहीतत्वात्कुतः प्रवृत्तिः । बहुपराग्रहणं धनमात्रोपलक्षणार्थं कुतः कर्मयोगादन्यदपि दानादि न करोति । 1 १ र-ण-अ । २ फ-य । ३ ण-विषयस्वाद । ४फ - निर्वचनात् । * वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy