________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीगणेशायनमः ॥ ॥ अथ एकादशोऽध्यायः प्रारभ्यते ॥ सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ॥ गुर्वथै पितृमात्रथै स्वाध्यायायुपतापिनः ॥ १॥ न वैतान्स्नातकान्विद्याद्राह्मणान्धर्मभिक्षुकान् ॥
निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ २ ॥ श्लोकद्वयेन च वाक्यार्थसमाप्तिः । स्नातकविशेषेण विशिष्टो दानार्थो विधीयते । ५ सान्तनिकादिभ्यो धर्मार्थ भिक्ष्यमाणेभ्यो निःस्वेभ्यो विद्याविशेषेण दातन्यामिति । संप्रति संप्रदानविशेषणत्वे धर्मभिक्षुकशब्दस्याधिकारसंपादनमपि प्रतीयते । एवं नैवं विशिष्टायाचैव निमित्तमिति नैमित्तिको दानाधिकारश्चोच्यते । संतानं प्रजाप्रयोजनमस्येति सान्तानिको विवाहार्थी भण्यते। तत्र हि धनमुपयुज्यते । भवति च पारंपर्येण संतानप्रयोजनः। धर्मग्रहणात् “ कामतस्तु प्रवृत्तानाम् ” इति द्वितीयादिविवाहप्रवृत्तौ न नियमतो १० देयमिति । एवं वक्ष्यमाणो नित्ययज्ञाग्निष्टोमाद्यर्थं वृत्तिवचनं यः करोति स वेदितव्यः । अध्वगः क्षीणपथ्योदनः । सार्ववेदसो विश्वजिति सर्वस्वं दक्षिणात्वेन दत्तवान्न तु प्रायश्चित्ताद्यर्थ । स्वाध्यायार्थी यद्यपि ब्रह्मचारिणोऽध्ययनं विहितं भिक्षाभोजनं च तथापि वस्त्रार्थोपयोगि धनं दातव्यं । अथवा गृहीतवेदस्य तदर्थजिज्ञासा भैक्षभुनोऽपि । उपतापी रोगी। ___स्नातकग्रहणं प्रशंसाथै । गुर्वर्थस्वाध्यायार्थत्वं प्रायः स्नातकविषये विद्यते । ब्रह्मचारिणो गुर्वर्थ कर्तव्यमिति विहितं । निश्चित्य निर्वचनेभ्यो विद्याविशेषतो बहुविद्याय बहु स्वल्पविद्यायाल्पमिति । ननु च सर्वमेवेदमप्रकृतं प्रक्रियते । एवं हि प्रतिज्ञातम् । " अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम्" इति । नैष दोष आश्रमधर्मत्वादस्य प्रकरणस्य । प्रायश्चित्तानामतुल्यरूपतया सहोपदेशस्तत्र प्रायश्चित्तनिमित्तत्वादस्यार्थस्य २० प्रथममभिधानं । दानं देयमित्युक्तं । दानशब्दश्च कर्मसाधनः । किं तद्देयमित्यपेक्षायामुत्तरश्लोकः ॥ १ ॥ २ ॥
एतेभ्यो हि द्विजायेभ्यो देयमन्नं सदक्षिणम् ॥
इतरेभ्यो बहिर्वेदिकृतान्नं देयमुच्यते ।। ३ ॥ दक्षिणाशब्दो यद्यपि कर्मकरसंयुक्ते संत्यागे वर्तते तथापि गोभूमिहिरण्यादिभाजना- २५ दन्यद्देयं द्रव्यमुच्यते । तथापि लौकिकी प्रसिद्धिरिति इतरेभ्य एतव्यतिरिक्ता ये
१ण-र-अनेक। २ ण-र-क्ष । ३ ण-विशेषणं । ४ र-सत्यपि । ५ फों ६ र-तत्रापि ।
For Private And Personal Use Only