________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः । मनुस्मृतिः ।
८३१ उच्छिष्टशब्दो व्याख्यातार्थः । अतिथ्यादिभुक्तशिष्टमाश्रिताय शूद्राय दातव्यं । एवं वासांसि जीर्णानि धौतानि शुक्लानि पुलका असारधान्यान्येवं परिच्छदाः शय्यासनादयः ॥ १२५॥
न शूद्रे पातकं किंचिन्न च संस्कारमहति ॥
नास्याधिकारो धर्मोऽस्ति न धर्मात्मतिषेधनम् ॥ १२६ ॥ ५ सर्वोऽयमनुवादश्लोकः । यदस्याहत्यशृङ्गग्राहिकया न प्रतिषिद्धं यथा हिंसास्तेयाधनादृतवर्णविशेषं सामान्यशास्त्रप्रतिषिद्धं न तद्यतिक्रमादस्य पापमुत्पद्यते । श्रुतमेवास्य शब्देन यथा हिंसास्तेयादिस्तत्रास्य भवत्येव दोषः। न च संस्कारमुपनयनलक्षणमर्हति। तदुक्तं " त्रयो वर्णा द्विनातय " इति । एवं नास्याधिकारो धर्मोऽस्ति स्नानोपवासदेवतार्चनादौ नास्य नित्योऽधिकारोऽस्ति । अकरणे न प्रत्यवैति । न धर्मात्मतिषेधनं १० येषु स्नानोपवासव्रतादिषु नित्याधिकारो नास्त्यकरणे प्रत्यवायाभावोऽथ निषेधो नास्ति तादृशेभ्यो धर्मेभ्यो न प्रतिषेधः । न चेदृशादस्य प्रतिषेधोऽतः शिष्टप्रतिषिद्धत्वादभ्युदयकामस्य तदनुष्ठानं न युज्यते । तदुक्तं “ निवृत्तिस्तु महाफला " । एवं लशुनादिभक्षणनिवृत्तिरप्यभ्युदयायास्य वेदितव्या । सामान्यशास्त्रविहितं ' निवृत्तिस्तु महाफलेति'। अतो न धर्मात्प्रतिषेधनमिति यत्रारम्भः ॥ १२६ ॥
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः ॥
मन्त्रवयं न दुष्यन्ति प्रशंसां प्रामुवन्ति च ॥ १२७ ॥ एतदेवाह । धर्मप्राप्तुमिच्छन्तोऽभ्युदयकामाः सतां साधूनां धर्ममनुष्ठिताः समाश्रिताः मन्त्रवर्ज न दुष्यन्ति अतस्तानेकाहोपवासदेवतार्चनगुरुब्राह्मणनमस्कारादि सतां वृत्तमाचरन्तो न दुष्यन्ति प्रशंसाफलं च प्रामुवन्ति । न पुनरेतन्मन्तव्यं यानि २० समन्त्रकाणि ब्राह्मणादीनां कर्माणि दर्शपौर्णमासादीनि तानि मन्त्रवज्यं शूद्रस्य न दुष्यन्तीति । यतः समन्त्रेषत्पन्नेषु मन्त्ररहितेनानुष्ठानमशाब्दं स्यात् । मन्त्रवर्जमित्येतस्य दर्शितो विषयः । तथा च भगवान् व्यासः
" न चेह शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति । "स्मृतिप्रयुक्तं तु न धर्ममश्नुते न चास्य धर्मे प्रतिषेधनं स्मृतम्" ॥ इति ॥ २५
एतदपि यथाविहितानुवाद्येव लशुनसुरापानादेर्न पतति । संस्कारानहतोक्तैव। उक्तं . चानुपनीतत्वाच्छ्रुतिविहितधर्माभावे स्मृतिविषये सामान्यविहिता धर्मा यथोक्तप्रकारास्ते नास्य प्रतिषिध्यन्ते । तथा च स्मृत्यंतरं " पाकयज्ञैः स्वयं यजेत । अनुज्ञातोऽस्य नमस्कारो मन्त्र इति " । ये पुनराहुः आवसथ्याधानपार्वणवैश्वदेवान्नपाकयज्ञादिषु शुद्राणां पाक्षिकोऽधिकारस्तेषामभिप्रायं न विद्मः। आवसथ्याधानं तावद्ह्यकारैराम्नातं त्रैवर्णिकोद्देशेनैव । मन्वा- ३० दिभिश्च नैवमानातं ।तथा केवलं " वैवाहिकानौ कुर्वीत गृह्यं कर्मेति " तत्र नैवाम्नातं । कुतः
For Private And Personal Use Only