________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८३०
मेधातिथिभाष्यसमलंकृता ।
[ दशमः
वैश्याद्बलिर्द्धारयितव्यः । वैश्या महाधना भवन्ति । ततस्तथा हरणे नियुक्ताः कृतापराधा न हन्यन्ते ॥ ११९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् || कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ १२० ॥
धान्यव्यवहारिणः शूद्राः कर्म उपकरणमुपकारो येषां न ते किंचिद्दापयितव्याः । एवं शिल्पिनः कारवस्तदेवमुक्तं प्राकू ' शिल्पिनो मासिमासि' इत्यादि । अधिकभागणार्थोऽयं श्लोकः ॥ १२० ॥
1
शुद्रस्तु वृत्तिमाकांक्षन्क्षत्रमाराधयेद्यदि ॥
धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १२१ ॥
१०
शूद्रस्तु वृत्तिमाकांक्षेत्तदा क्षत्रमाराधयेत् । वृत्तिग्रहणाज्जीविकार्थमेव क्षत्राराधनं । न धर्मार्थे । ब्राह्मणाराधनं तूभयार्थमपीत्युक्तं भवति । एवं धनिनं वैश्यमाराध्य जीवेत्॥ १२१ ॥ स्वर्गार्थमुभयार्थ वा विप्रानाराधयेत्तु सः ॥
जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ।। १२२ ।।
आराधयेदित्युक्तं । तदाह । जातब्राह्मणशब्दस्य ब्राह्मणोऽयमिति यदस्य विशिष्टं १५ कर्मैष शब्दो भवति । तदासौ कृतकृत्यः कृतार्थो वेदितव्यः । अथवा जातब्राह्मणव्यपदेशस्येति व्याख्येयं । ब्राह्मणाश्रितोऽयमिति यदस्य व्यपदेशो जायते ॥ १२२ ॥
विसेचैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ॥
यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् ।। १२३ ॥
ब्राह्मणशुश्रूषैव मुख्यः शूद्रस्य धर्मः । ततो यदन्यद्रतोपवासादि कुरुते तदस्य २० निष्फलं । न तु दानपाकयज्ञादीनामस्य प्रतिषेधः । प्रत्यक्षविधानात् । इतरप्रतिषेधो ब्राह्मणशुश्रूषास्तुत्यर्थः ॥ १२३ ॥
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुंबाद्यथाईतः ||
शक्ति चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ।। १२४ ॥ द्विजातीनामयं धर्मः । तस्य वृत्तिः कल्पनीया । शुश्रूषमाणस्य स्वकुटुंबादिति
२५ पुत्रवदसौ पालनीयः । आत्मीयां शक्तिमवेक्ष्य दाक्ष्यं च तस्य कार्येषु योगं भृत्यानां च पुत्रदाराणां तदीयानां परिग्रहं कियंतोऽस्य भर्तव्या इत्येतदपेक्ष्य सर्वेषां मरणं कर्तव्यम् ॥ १२४
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च ॥
पुलाकाचैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ १२५ ॥
For Private And Personal Use Only