________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
यद्यपि तत्पित्रादिक्रमायातं तथापि न तदीयशब्देन शक्यमभिधातुं बहुसाधारण्यात् । तथा च ' निबन्धो द्रव्यमिति ' स्मृत्यन्तरे पठितं । अथवा मित्राच्छशुरगृहाद्वा यल्लब्ध प्रीत्या स लाभः । क्रयः प्रसिद्धः ! जयः संग्रामे । प्रयोगकर्मयोगी कुसीदकृषिवाणिज्यान्यतश्च वर्णभेदेनैतेषां धर्म्यत्वं । तत्राद्यास्त्रयः सर्वसाधारणाः । जयः क्षत्रियस्य । प्रयोगकर्मयोगौ वैश्यस्य । सत्प्रतिग्रहो ब्राह्मणस्य । विशेषश्रवणेऽपि प्राद्गर्शनन्यायो ५ विभागः । केचित्क्रये विवदन्ते तन्न युक्तं सर्वव्यवहारोच्छेदप्रसङ्गात् । जयं यानबन्धेनापि केचिदिच्छन्ति सर्वविषयं तदयुक्तं । द्यूतधनस्य स्मृत्यन्तरे स्वशुद्धित्ववचनात् पार्श्वकद्यूतेत्यत्र । तथापरे प्रयोगमव्यापारमाहुः । तथा हि प्रयोगो दृश्यते ' ज्ञानपूर्वप्रयोग' इति । तत्र शब्दस्य प्रयोग इति गम्यते । तथा कर्मप्रयोगः कर्मप्रचार आवर्जनः।।११५॥
विद्या शिल्पं भतिः सेवा गोरक्ष्यं विपणिः कृषिः॥
धृतिभैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ ११६ ॥ सर्वपुरुषाणामापदि वृत्तिरियमनुज्ञायते । तत्र विद्या वेदविद्याव्यतिरेकेण वैद्यकतर्कभूतविषासनविद्या सर्वेषां जीवनार्या न दुष्यति । शिल्पं व्याख्यातं । भृतिः प्रेष्यकत्वं । सेवा परवृत्तानुवृत्तित्वं । धृतिः संतोषः। दृष्टान्तार्थ चैतत् । अतो यथाविहितवृत्तिभावेनैते जीवनोपायाः संकीर्यन्ते । पुरुषमात्रे विषयत्वात् ॥ ११६ ॥
ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् ॥
कामं तु खलु धर्मार्थ दद्यात्पापीयसेऽल्पिकाम् ॥ ११७ ॥ धर्मार्थमिति पूर्वोक्तैवाऽऽपन्निवृत्तिवेदितव्या। पापीयस इति वचनाद्धार्मिकादल्पाऽपि न ग्रहीतव्या । यदुक्तं अध्यापनतुल्यानि कृषिवाणिज्यकुसीदानि तदापद्गतेन ॥ ११७ ॥
चतुर्थमाददानोऽपि क्षत्रियो भागमापदि ॥
प्रजा रक्षन्परं शक्त्या किल्विषात्पतिमुच्यते ॥ ११८ ॥ राज्ञः क्षीणकोशस्य षड्भागग्रहणापवादश्चतुर्थभागोऽभ्यनुज्ञायते । परिशिष्टोऽर्थवादः । परमिति क्रियाविशेषणं । परया रक्षयेत्यर्थः ॥ ११८ ॥
स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः ।
शस्त्रेण वैश्यान रक्षित्वा धर्नामाहारयेद्धलिम् ॥ ११९॥ २५ विजयशब्देन विजयफलयुक्तं स्वधर्मतया विधीयते। तथा चाहवे न स्यात्पराङ्मुखः भय उपस्थिते पराङ्मुखो युद्धे न स्यादित्यर्थः । अनेन प्रकारेण प्रजा रक्षित्वा
१ याज्ञवल्कीये न्य. १२१ ।
For Private And Personal Use Only