SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२८ मेधातिथिभाष्यसमलंकृता । [ दशमः जपेन होमेन चैनः पापमपैति विनश्यति । ते च वक्ष्यति प्रतिग्रहाद्यदेनस्त. त्यागेन तस्य प्रतिग्रहस्य तपसा वक्ष्यमाणेन “ मासं गोष्ठे पयः पीत्वा" इत्यादि॥१११॥ शिलोञ्छमप्याददीत विमोऽजीवन्यतस्ततः॥ प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ ११२ ॥ अस्याप्यनुवादोऽर्थवादमेवाह । महदेतदन्याय्यं यत्परद्रव्यग्रहणं । तत्र कदाचिदश्रूयमाणस्य ग्रहणेऽपीदं भवदुष्यतोऽप्येतावता प्रशस्यत्वमत्र भयः प्रतिग्रहः समानजातीयः । स एवायं प्रकर्षप्रत्ययहेतुर्भवति । प्रतिग्रहाच्छिलः श्रेयानिति यतो निकृष्टमपेक्ष्योत्कृष्टत्वनिमित्तं प्रकर्षमनुभवति । न हि भवति चण्डालाबाह्मणः श्रेयानतः शिलोञ्छयोरपि ग्रहणे प्रशस्यत्वग्रहणं । तथापि शिलोञ्छः श्रेयः । यद्यपि शिलोच्छवृत्तिरित्यन्तोत्कृष्टोक्ता १. तथाप्यस्ति प्रतिग्रहेण किंचित्स्यात् । यतस्तत्राधिदेवतानिष्ठितभृत्यागतं क्रियावैकल्यमसत्प्रति ग्रहेऽप्यात्मनि ग्रह उपपन्नेन कुर्वीतेयमिति । तत्रेतरसंनिहितद्रव्यस्याऽऽत्मनिग्रहोऽतः शिलोञ्छवृत्तिरपि न निरवद्या । ततो युक्तं प्रतिग्रहाच्छिलः श्रेयानित्यादि ॥ ११२ ॥ सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः॥ याच्यः स्यात्स्नातकैविप्रैरदित्संस्त्यागमर्हति ॥ ११३ ॥ अत्र त्रीणि निमित्तानि राजप्रतिग्रह उच्यन्ते । सीदद्भिः कुटुंबावसादं प्राप्तैरापदीत्यर्थः । कुप्यमिच्छद्भिः कुण्डलकटकााष्णीषासनादि काञ्चनादि अन्यद्वा धनं गोहिरण्यादि यज्ञोपयोग्यन्यत्र वा निमित्तैः पृथिवीपतिर्याच्यो देशेश्वरोऽभ्यर्थयितव्यः । अत्र यदुक्तं ' न राज्ञः प्रतिगृह्णीयात्' इति स दुष्टराजविषयः प्रतिषेधो द्रष्टव्यः । तथा चोक्तं " लुब्धस्योच्छास्त्रवर्तिन" इति । अदित्सन् याचितः सन् दातुं यो नेच्छति २. स त्यागमर्हति । तस्य विषये न वस्तव्यम् । अथवा त्यागो हानिरन्यस्य चानिर्देशाद्धर्महानि प्राप्नोति ॥ ११ ॥ अकृतं च कृतात्क्षेत्रागौरजाविकमेव च ॥ हिरण्यं धान्यमन्नं च पूर्व पूर्वमदोषवत् ॥ ११४ ॥ अकृतमकृष्टं क्षेत्र प्रशस्यं अजाविकं च भवति । परस्परविशेष उक्तार्थः २५ श्लोको गम्यते ॥ ११४ ॥ . सप्त वित्तागमा धा दायो लाभः क्रयो जयः॥ .. प्रयोगः कर्मयोगश्च सत्मतिग्रह एव च ॥ ११५ ॥ दायोऽन्वयागतं धनं । लाभो निध्यादेः पित्राद्यनिताद्वा निबन्धात्संविभागः । १र-आदापदीत्यर्थः । २ र-वा। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy