SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। अजीगतः सुतं हन्तुमुपासर्पद्रुभुक्षितः ॥ न चालिप्यत पापेन पुत्पतीकारमाचरन् ॥ १०५॥ अजीगतों नाम ऋषिः। सक्षुत्परिपीडितः पुत्र सुतं शुनःशेपनामानं हंतुमुमासर्पत प्रचक्रमे । न चासौ क्रव्याद इति युज्यते । शौनःशेपमाख्यानं बढचि सुप्रसिद्धं । नात्र विस्तर आगमस्योपयुज्यते । परमार्थस्तु प्रकृतिरूपोर्थऽवादः । एवं सर्व एते द्रष्टव्याः ॥१०॥ ५ श्वमांसमिच्छन्नार्थोऽत्तुं धर्माधर्माविचक्षणः॥ पाणानां परिरक्षार्थ वामदेवो न लिप्तवान् ॥ १०६ ॥ एवं वामदेवो नाम ऋषिः। स आर्तः क्षुधा श्वांसमत्तुं भक्षयितुमैच्छत् ॥ १०॥ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ॥ बह्वीर्गाः प्रतिजग्राह धोस्तक्ष्णो महातपाः ॥ १०७॥ वृधो नाम तक्षा अप्रतिग्राह्यस्ततो बह्वीर्गा भरद्वाजो नाम ऋषिः प्रतिजग्राह ॥१०७॥ क्षुधाश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् ॥ चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ १०८ ॥ विश्वामित्रो नाम महामुनिः प्रसिद्धः । स कस्मिंश्चिदवसरे क्षुधादुःखेन श्वजाघनी चण्डालहस्तादादायात्तुमभ्यागत आभिमुख्येनाध्यवसितः । न केवलं परिदुष्टेऽन्ने १५ दोषोऽस्ति यावत्स्वभावदुष्टेऽपीति श्वनाघनीग्रहणं सर्वदोषदुष्टमप्यापदि भक्षयितव्यमिति श्लोकतात्पर्यार्थः ॥ १०८॥ प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि ॥ प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०९ ॥ आपदीषद्नहितयोर्याजनाध्यापनयोः संभवेन गर्हितप्रतिग्रहे वर्तितव्यमिति श्लोकार्थः॥१०९॥ २० ____ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ॥ प्रतिग्रहस्तु क्रियते शूद्रादप्यंत्यजन्मनः ॥ ११० ॥ अत्रैव हेतुरूपोऽर्थवादः । प्रवृत्तिरेवेदृशी लोकस्य यद्नुपनीता नाधीयते न च यजन्ते । अतः सुष्टातॊऽपि न शूद्रं याजयिष्यत्यध्यापयिष्यति वा । दानं तु सार्ववर्णिकं प्रसिद्धं । शूद्रादपि प्रतिग्रहः कर्तुं प्राप्नोत्यतः स प्रत्यवरः ॥ ११० ॥ जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ॥ प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १११ ॥ व्यापनादापे ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy