________________
Shri Mahavir Jain Aradhana Kendra
१०
८२६
मेधातिथिभाष्यसमलंकृता ।
[ दशमः
यद्यपि शिल्पमपि कारुकर्मैव तथापीह भेदेनोपादानात्तक्ष किवर्धकिप्रभृतयः कारवस्तेषां कर्माणि तक्षणवर्धनादीनि शिल्पानि यत्र छेदरूपकर्माण्या लेख्यानि ॥ १०० ॥ वैश्यवृत्तिमनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः ॥ अवृत्तिकर्षितः सीदन्निमं धर्म समाचरेत् ॥ १०१ ॥
अनातिष्ठन्निच्छया । एतदुक्तं भवति । क्षत्रवृत्त्यसंभवे यदि वा वैश्यवृत्तिमाचरेदसत्प्रतिग्रहं वा तुल्ये एते वृत्ती । असत्प्रतिग्रहात्क्षत्रवृत्तिः श्रेयसी । अथवाऽनातिष्ठन् वैश्यवृत्तिरसंभवे ततश्चासत्प्रतिग्रहो वैश्यवृत्तेहींनतरः । स्वे पथि स्थित इति ब्रुवन्नापद्वृत्तीनां समुच्चयोऽस्तीति ज्ञापयति । अवृत्त्या कर्शितं सीदन्नवसादं प्राप्नुयात् ॥ १०१ ॥ सर्वतः प्रतिगृह्णीयाद्राह्मणस्त्वनयं गतः ॥
पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ॥ १०२ ॥
www.kobatirth.org
१५
२५
Acharya Shri Kailassagarsuri Gyanmandir
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ॥
दोषो भवति विप्राणां ज्वलनांबुसमा हि ते ।। १०३ ॥
पूर्वेणासत्प्रतिग्रह उक्तः । अनेन याजनाध्यापने अनुज्ञायेते । गर्हितादिति सिंहावलोकितवत्पूर्वाभ्यामप्यभिसंबध्यते । यथाग्निरापश्च सर्वत्र शुद्धा एवं ब्राह्मणा अपीति प्रशंसा केचिदाहुः । असत्प्रतिग्रहवदसद्याजनाध्यापने अप्यनुज्ञायेते । यद्यभविष्यतां तदा २० पूर्वश्लोक एवं प्रतिग्रहवदपठिप्यतां । इह तु विधिप्रत्ययाभावाद्दोषो भवति विप्राणामिति वर्तमानप्रत्ययेन सिद्धन्यपदेशादर्थवादताप्रतीतेः । किंच प्रतिवचनं तावदर्थवादः पूर्वेण सिद्धत्वात्तदेव वाक्यत्वापत्तेर्याजनाध्यापने अप्येवं भवितुमर्हतः । वयं तु ब्रूमोsसंभवे सत्प्रतिग्रहस्य तत्रापि वृत्तिर्युक्ता । यतः प्रभृतिः स्मर्यते । यथाकथंचित्स आत्मानमुद्धरेदन्यत्र प्रत्यवायेभ्यैः । कर्मार्थस्त्वापद्धर्मपाठः ॥ १०३ ॥
सर्वत इति प्रतिग्राह्यजातिगुणानामपेक्षा न कर्तव्या । अत्रापि हीनहीनतरहीन - तमेषु क्रमेण पूर्वपूर्वाभाव उत्तरोत्तर प्राप्तिरस्त्येव । यथा क्षत्रवृत्त्यभावे वैश्यवृत्तिः । पवित्रं गङ्गास्त्रोतस्तदमेध्यसंसर्गेण दुष्यति “ नदी वेगेन शुध्यति ” इत्युक्तं । एवं ब्राह्मणोऽपीति ॥ १०२ ॥
"
जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।।
आकाशमिव पङ्केन्न न स पापेन लिप्यते ॥ १०४ ॥
पूर्वेणासत्प्रतिग्रह उक्तोऽनेन प्रतिग्रहदुष्टमन्नमभ्यनुज्ञायते । ततस्तत इति जातिकर्मात्तदपेक्षमत्र स्वामिनमाह । शेषार्थवादश्च ॥ १०४ ॥
१ र वचनं । २ र प्रवृत्ति । ३ र पतनायेत्यः ।
For Private And Personal Use Only