SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२५ अध्यायः मनुस्मृतिः। यो लोभादधमो जात्या जीवेदुत्कृष्टमकर्मभिः ॥ तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ ९६ ॥ यो जात्याऽधमो निकृष्टः क्षत्रियादिः । सत्यपि प्रकृतत्वे रानन्यस्य सर्वेषामयं ब्राह्मणवृत्तिप्रतिषेध एवमेवायं श्लोकः। उत्कृष्टो निरपेक्षो ब्राह्मण एव कर्मभिरध्ययनादिभिजीवति । दण्डोऽयं सर्वस्वग्रहणप्रवासनैः ॥ ९६ ॥ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः॥ परधर्मेण जीवन्हि सद्यः पतति जातितः ॥ ९७ ॥ पूर्वस्य विधेर्निन्दार्थवादोऽयम् । यो यस्य विहितो धर्मो जात्याश्रयेण विगुणोऽप्यपरिपूर्णाङ्गोऽपि युक्तोऽनुष्ठातुं न परधर्मः सर्वाङ्गसंपूर्णोऽपि । अत्र निन्दार्थवादः परधर्मेणेति ॥ ९॥ वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् ॥ अनाचरनकार्याणि निवर्तेत च शक्तिमान् ॥ ९८॥ स्वधर्मेणाजीवतो वैश्यस्य शूद्रवृत्तिरनुज्ञायते पादधावनादिशुश्रूषया । अनाचरनकार्याणि । उच्छिष्टापमार्जनाद्यकार्य । तत्परिहर्तव्यं । शक्तिमान्निवर्तेतेति सर्वशेषः । अत्र केनचिदुक्तं सामर्थ्यात् ब्राह्मणक्षत्रिययोरप्येतदतिदिश्यते । तत्रापरेण संदिह्यते । १५ कथं शूद्रवृत्तिं ब्राह्मणः कुर्यात् । एवं हि श्रूयते "उत्कृष्टं चापकृष्टं च विद्यते कर्मणी तयोः । मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ इति । तदुक्तं न त्वस्यायमर्थो ब्राह्मणस्य शूद्रवृत्तिरनुज्ञायते सामर्थ्यादिति । किं तर्हि निवर्तेत च शक्तिमानिति यदस्माभिरुक्तं सर्व शेष इति ॥ ९८ ॥ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तु द्विजन्मनाम् ॥ पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ ९९ ॥ कारुकाः शिल्पिनः सूदतन्तुवायादयस्तेषां कर्माणि पाकवयनादीनि प्रसिद्धानि तैनर्जीवेत । पुत्रदारात्ययस्तद्भरणासमर्थता । एतेन धनतन्त्रभंगेन तस्यापदि विवाहादिकर्मणामेषां विधानान्निकृष्टताऽनुमीयते ॥ ९९ ॥ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः॥ तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०॥ प्रचरितैरनुष्ठितैः। शुश्रूष्यन्ते सेव्यन्ते । तदुपयोगीनि यानि कर्माणि शिल्पानि । १०४ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy