________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२४
मेधातिथिभाष्यसमलंकृता ।
[दशमः
विरुद्धस्य च श्रवणादेवमुच्यते । तथा पितृभिः सहेत्युच्यते । न च तैः किंचिदपराद्धं । सुकृतदुष्कृतयोः फलं हि कर्तृगामि । न च पितॄणां कथंचिदपि कर्तृत्वमित्येतत्प्रागुक्तमेव । किंच “ सद्यः पतति मांसेन " इति पतितत्ववचनं परेषां न पातित्यमिति नियमात् । तस्मादस्ति किंचिदनिष्टमित्येतावन्मात्रं प्रतिषेधेन संबध्यते। यथाश्रुतमेव युक्तं भोजनादिक्रिया यत्र तव्यतिरेकेण यदन्यद्विक्रयस्थानादि तत्र तिलैयः कुरुते स कृमित्वं प्राप्नोति यथोक्तेन दोषेण संयुज्यते ॥ ९१ ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ॥
यहेण शू द्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ ९२॥ उक्तार्थः ॥ ९२ ॥ इतरेषां तु पण्यानां विक्रयादिह कामतः ॥ ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ ९३ ॥
कामत इतिवचनादनापदित्यनुमीयते । गुरुलघुत्वदर्शनं मांसादीनां प्रायश्चित्तविशेषार्थ गुरुणिगुरूणि लघुनिलघूनीति वक्ष्यामः ॥ ९३ ॥
रसा रसैनिमातव्या न त्वेव लवणं रसैः॥ १५ . कृतान्नं चाकृतानेन तिला धान्येन तत्समाः ॥ ९४ ॥
_. रसाः पूर्वोक्तास्ते रसैर्निमातव्याः। मधुरसं गुडादि दत्वाऽऽम्लादिरसमामलक्यादि ग्रहतित्वं । न केवलं लवणं दत्वा रसान्तरमादेयं । पाठान्तरं लवणं तिलैरिति । अस्मिन्पाठे तिलैरेव लवणस्य प्रतिषेधो न रसान्तरैः । कृतानं सक्त्वोदनाद्यकृतान्नेन पायसादिना निमातव्यं । तिलास्तु धान्येन ब्रीह्यादिना तत्समाः प्रस्थं दत्वा प्रस्थ एव ग्रहीतव्यो नार्थापेक्षयाऽधिकं वादेयं । विनिमयो नाम विक्रय एव । क्रीणातिस्तु द्रव्यावनिमये पठ्यते । न हि तद्युक्तं । “ विक्रये प्रकृतिविनिमयमस्त्विति" गौतमेनैवं दर्शितं । एवं तर्हि प्रसिद्धेन रूपकादिना द्रव्यार्पणं विक्रयः । तदन्यद्रव्यपरिवृत्तौ विनिमयः ॥ ९४ ॥
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।।
न त्वेव ज्यायसी वृत्तिमभिमन्येत कर्हिचित् ॥९५ ॥ २५ एतेन सर्वेणापि प्रतिषिद्धपण्यप्रतिप्रसवोऽयं राजन्यस्य । न किंचित्तस्याविकेयं
वैश्यवत् । किंतु सत्यपि स्ववृत्तित्यागेन ज्यायसी ब्राह्मणवृत्तिं कदाचिदप्यभिमन्येत इ मां करोमीति चेतसि न कुर्यात् । प्रतिकूलं दैवमनय एतदापद्रुपलक्षणार्थं गतः प्राप्तः । आपद्गत इति यावत् ॥ ९५ ॥
१फ-धन्येन। .
For Private And Personal Use Only