________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
८२३
मद्यरूपतयैव वर्तत उभौ मध्वासवक्षीवाविति प्रयोगदर्शनात् क्षीवतामद्यकृतैव गुडस्य रसत्वप्रतिषेधे निवृत्यर्थग्रहणं । अन्ये तु खण्डमत्स्याण्डिकादीनामनुज्ञानार्थ व्याचक्षते ॥८॥
* आरण्यांश्च पशून्सर्वान्दष्ट्रिणश्च वयांसि च ॥
मद्यं नीलिं च लाक्षां च सर्वाश्चैकशफांस्तथा ॥ ८९ ॥ आरण्यपशुशब्दौ गुडलवणेनैव व्याख्यातौ ग्राम्यपश्चनुज्ञानार्थ ग्राम्या अपि ५ पशवो हिंसायां संयोग इति निषिद्धार्थः । दंष्ट्रिणः श्वशूकरादयः । वयांसि पक्षिणः । एकशफा अश्वा अश्वतरगर्दभादयः । बहूनिति तथा शब्दस्थाने पठन्ति । एकस्य विक्रये तथा न दोषः ॥ ८९ ॥
काममुत्पाद्य कृष्या तु स्वयमेव कृषीवलः ॥
विक्रीणीत तिलान् शुद्धान्धर्मार्थमचिरस्थितान् ॥ ९० ॥ १० " कृतान्नं च तिलैः सह” इति प्रतिषिद्धानां तिलानां स्वरूपप्रयोजनविशेषाश्रयः प्रतिप्रसवः । शुद्धानचिरस्थितानिति च स्वरूपविशेषः । धर्मार्थमिति प्रयोजनविशेषः । शुद्धी व्रीह्यादिभिरमिश्राः । कृशराद्यर्थ मिश्राणां विक्रयासंभवः । अचिरस्थिताः अर्थादिक लाभमनपेक्ष्य म्वल्पं मूल्यमद्यकालान्तरेणागामी बहुमूल्यं लभेयेत्येवं न प्रतीक्षितव्यं । अथवा शद्धा अकृष्णाः । कृष्णतिलानां प्रतिषेधः । अचिरम्थितानिति वेयमर्थे । १६ चिरस्थितं हि कृष्णं भवति । कृष्णा उत्पाद्य क्रांत्वा न विक्रेयाः । स्वयं कृष्या कृषीवल इति । प्रायिकोऽनुवादो न विवक्षितानि पदानि प्रतिग्रहाद्यनितानामप्यप्रतिषेधः । धर्मप्रयोजने यवतिलान् विक्रीयन्ते । इह च रूपकैर्गावो दक्षिणाद्यर्थ स्वाध्यायाग्निहोत्राद्यर्थ क्रीयन्ते । ब्राह्मादयो वा दर्शपूर्णमासाद्यर्थं स धर्मार्थो विक्रयः । यस्य वा तिला एव दानादिधर्मायोपयुज्यन्ते भेषजतैलोपयोगे वा केतुः सोऽप्येवमेव ॥९०॥ २०
भोजनाभ्यञ्जनादानाद्यदन्यत्कुरुते तिलैः॥
कृमिभूतः श्वविष्ठायां पिताभिः सह मज्जति ॥ ९१ ॥ प्रकृततिलेविशेषव्यतिरेकेण तिलविक्रयप्रतिषेधे विशेषोऽयमर्थवादः । ननु चोक्तं प्रतिषेधानां दोषसूचनं फलतयैव संबध्यते तत्कि “ भोजनाभ्यञ्जनादानाद्यदन्यत्कुरुते तिलैः। कृभिभूत" इत्ययमर्थवाद इत्युच्यते । असंभविनः फलम्य शास्त्रान्तरेण २९ *त्रपुसीसं तथा लोहं तैजसानि च सर्वशः।। बालांश्चम तथास्थीनि सस्नायूनि च वर्जयेत्॥१॥
१ र-हस्त । २ र-दष्टयातु । ३ र-शुद्धा अन्यात्यु ब्राह्यादिभिः । ४ र-विक्रेयानि । र-तिलप्राय।
For Private And Personal Use Only