________________
Shri Mahavir Jain Aradhana Kendra
८२२
www. kobatirth.org
१५
मेधातिथिभाष्यसमलंकृता ।
[ दशमः
यस्मिन् तदेवमुच्यते । वक्ष्यमाणानि द्रव्याण्यत उद्धृत्यान्यानि विक्रेयाणि । वित्तवर्धनमिति भावानुवादः । वाणिज्यायां हि धनवृद्धिः प्रसिद्धा । त्यजतो धर्मनैपुण्यं धर्मे या निष्ठाऽतस्तेन पण्यविक्रयो न कर्तव्य इति ज्ञापयति । अतश्चेदमवगम्यते सर्वासां वैश्यवृत्तीनां गर्हिता कृषिः । ततो गोरक्षादयः ॥ ८५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सर्वान् रसानपोत कृतानं च तिलैः सह ॥
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ ८६ ॥
मधुरादयः षड्रसाः । तत्प्रधानानि द्रव्याणि गुडदाडिमकिराततिक्तादी प्रतिषिध्यन्ते । न हि केवलानां रसानां संभवः । यद्यपि रसशब्दो न स्वयं द्रव्ये शुक्लादिशब्दवद्वर्तते सामानाधिकरण्येन तथापि लक्षयति द्रव्यं 'गंगायां घोष' इति । तथा १० अपोहेत त्यजेन्न विक्रीणीयादिति यावत् । कृतान्नं सिद्धमन्नमोदनादि तण्डुलादि च तिलैः सह । तिला अपि न विक्रेयाः । न तु पुनस्तिलकृतान्नयोः सह प्रयुक्तयोः प्रतिषेधः केवलयोरभ्यनुज्ञानं । अश्मानः सर्वपाषाणाः । लवणमपाषाणरूपमपि सैन्धवस्य पाषाणशब्देन ग्रहणं रसपक्षे लवणस्य नित्यार्थ आरंभस्तेन मधुरादीनां पाक्षिको विक्रयः । पशवो ग्राम्यारण्याः । मानुषा मनुष्याः || ८६ !।
सर्वं च तान्तवं रक्तं शाणक्षौमाजिनानि च ॥
अपि चेत्स्युररक्तानि फलमूले तथैौषधीः ।। ८७ ।।
तान्तवं तन्तुनिर्मितं वस्त्रपटबृहतिकादि । रक्तं लोहितं । लोहिते वर्णे रक्तशब्दः प्रसिद्धतरः । तथाहि रक्तो गौलहित उच्यते । यद्यपि शुक्लस्य वर्णान्तरापादनमपि रजेरर्थः शाणक्षौमाजिनान्यरक्तान्यपि । यत आह । अपि चेत्स्युररक्तानि । २० शिष्टं प्रसिद्धम् ॥ ८७ ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ||
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ ८८ ॥ शस्त्रं खड्गपाशादि । गन्धास्तगरोशीर चन्दनादयो द्रव्यविशेषाः । रसशब्दवदेतद्व्याख्येयं । क्षीरं रसविकारं स्मृयंतरप्रसिद्धमतो मस्तुकिलाटोदश्विदादीन्यपि न २५ विक्रेयानि । दधिघृतग्रहणं प्राधान्यादुपात्तम् । मधु मधूच्छिष्टमेकदेशलोपा देवदत्त दत्त इतिवत् । स्मृत्यन्तरे हि तत्प्रतिषिद्धम् । इह च क्षौद्रशब्देन सारवस्य निषिद्धत्वान्माध्वीकस्य च मद्यग्रहणेनोत्तरत्र प्रतिषेधात् । अन्ये तु माध्वीकस्यैवाप्राप्तमद्यावस्थस्य प्रतिषेधार्थं मधुशब्दं वर्णयन्ति । तदयुक्तं । नायं निप्पीडितमृद्विकारसवचनः । किं तर्हि ? १ फ - क्षौमाविकानि श्रौमविकारि ( राम० ) । २ मधु = मजा (ल)
1
For Private And Personal Use Only