________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
८२१ उभाभ्यामप्यजीवंस्तु क्रमोऽनेन प्रदर्श्यते। प्रथममनन्तरा वृत्तिस्तदभावे व्यवहितेति । कृषिगोरक्षाग्रहणं वैश्यवृत्तिमात्रप्रदर्शनार्थ । तथा च वणिग्यायामविक्रयप्रतिषेधं वक्ष्यति “ जीवेद्वेश्यस्य जीविकाम्" इति। " सामान्यविशेषभावेन क्रियायाः साध्यसाधनभावः प्रागुपपादितः। तत्र कृषिवाणिज्यकुशीदान्यनापद्यैवोक्तान्यध्यापनादिवत्। "प्रमृतं कर्षणं स्मृतम् । सत्यानृतं तु वाणिज्यम्" इति । तु केचिदाहुः (गौ०९।५-६)। "कृषिवाणिज्ये ५. वा स्वयंकृते । कुसीदं चेति" । उक्तं स्वयंकरणमत्राभ्यनुज्ञायते । यत्त्वध्यापनादिवदिति साम्यमाशङ्कितमत्रैव परित्हतं यदि सर्वेषां कृष्यादयः समत्वेन स्युः कथमिदमुच्यते "वणिक्पशुकृषीर्विशः" आजीवनार्थ ब्राह्मणक्षत्रिययोरपि नाऽऽजीवनार्थस्तदा। किंच 'याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः' इत्यत्र तान्यपि समाख्यास्यत् । तस्मादध्यापनादिनियमैर्जीवतः कृष्यादयः प्रतिषिद्धा एव । यस्तु प्रकरणादन्यत्रैषामुपदेशः स तत्रैव प्रदर्शितप्रयोजनः ।।८२ ॥ १०
वैशवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा ॥
हिंसाप्रायां पराधीनां कृषि यत्नेन वर्जयेत् ॥ ८३ ॥ कृषिनिन्देतरवैश्यवृत्तिस्तुत्यर्था न पुनस्तस्यामप्रतिषेधार्था । तथा च सति उपदेशो व्यर्थोऽस्यापद्यते ॥ (३॥
कृषि साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता ॥
भूमि भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ ८४ ॥ कृषि लोकाः साध्वेव कर्मेति मन्यन्ते । न तु तद्युक्तम् । कर्षतः पुरुषस्य बहु धान्यं भवति। ततोऽतिथ्यादिभ्योऽन्नदानेनोपकरोत्यतः साध्वी । तथा चोक्तं " नाकृष्यतोऽतिथिप्रियः । कृषि यत्नेन कुर्वीत मौर्व्या सर्वत्र यत्नतः" । तथा "लागलं पवीरवं सुशेवं सुममतित्सरु । उदित्कृषतिगामविप्रफय॑ च पीवरीम्" इत्यादि तेन सम्यकू मन्यन्ते। सा हि २० वृत्तिः सद्भिनिन्द्यते । कस्य हेतोभूमिं हन्ति काष्टमयोमुख लाङ्गलां भूमिशयांश्च भूमौ शेरते ये प्राणिनस्तृणजलूकादयस्तांश्च हन्ति । ननु च भूमेः कीदृशं हननं न हि सा प्राणिवत्काष्ठवत्पीडामनुभवति । अनुभवन्ती तु सर्वविदारणं भूमेर्दोषवदिति ज्ञापयति ॥८॥
___ इदं तु वृत्तिवैकल्यात्यजतो धर्मनैपुणम् ॥
विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ ८५ ॥ इदमिति वक्ष्यमाणस्य प्रतिनिर्देशः। विशः पण्यं विट्पण्यं वैश्यानां यद्विक्रेयं तदपि वृत्तिवैकल्या द्धानाभावाब्राह्मणेन विक्रेयं । उद्धार्याणि द्रव्याण्युद्धारशब्देनोच्यन्ते । उद्धृत उद्धारो
१र-बयायाम। २ख-ख्यातः । ३ विज्ञेयं ।
For Private And Personal Use Only