________________
Shri Mahavir Jain Aradhana Kendra
८२०
मेधातिथिभाष्यसमलंकृता ।
यो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति ॥
अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ ७७ ॥ जीविकाकर्माण्येतानि क्षत्रियस्य न भवन्ति । यानि त्वदृष्टार्थानीष्टयध्ययनदानानि न विवर्तन्ते । वेदस्य च प्रकृतत्वादेतदध्यापनं निषिध्यते । न तु धनुर्वेदशिल्पकलाविद्याः ॥ ७७ ॥
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः ॥
न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः ।। ७८ ।। पूर्वेणैतव्द्याख्यातं । तौ क्षत्रियवैश्यौ प्रत्येतेऽध्यापनादयो धर्मा मनुना प्रजापतिना नोक्ता न स्मृता इत्यर्थः ॥ ७८ ॥
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुंकृषीर्विशः ॥
आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥ ७९ ॥
इदं तयोर्जीविकाकर्म शस्त्रं खड्गादि । अस्त्रं तन्मन्त्राः धनुर्वेदप्रसिद्धाः । अयमप्युक्तानुवाद एव । वणिक्पशुशब्दौ वणिक्कर्मान्तर्भावेन प्रयुक्तौ । वणिज्या पशुपालनं च यद्यप्यध्ययनादिधर्माः सर्वेषां सन्ति तथापि प्राधान्यमेतेषाम् ॥ ७९ ॥ वेदाभ्यासो ब्रह्मणस्य क्षत्रियस्य च रक्षणम् ॥
१५
वार्ता कर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ ८० ॥
वेदाभ्यासो वृत्तिप्रकरणादध्यापनं एवं विशिष्टानि स्वकर्मशास्त्रप्रवृत्तिकर्मस्वन्येभ्यो जीवनकर्मभ्य इमानि श्रेयस्करतराणि ॥ ८० ॥
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
१०
www. kobatirth.org
२०
Acharya Shri Kailassagarsuri Gyanmandir
जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ ८१ ॥
यदाऽस्य शरीर कुटुंबनित्यकर्मावसादो भवति न तेभ्यः प्राप्तं धनं भवति तदा यमजीवन्नित्युच्यते यथोक्तेनाध्यापनादिना तदा क्षत्रियवत् ग्रामनगररक्षादिना शस्त्रास्त्रघरणेन सति संभवे सर्वाधिपत्येन जीवेत् । जीवतिर्व्याख्यातार्थः । शरीरमात्रसंधारणे न वर्तते । किं तर्हि कुटुंबस्वकर्मनित्यकर्मावस्थितिमपि लक्षयति । स ह्यस्य प्रत्यनन्तरोऽनन्तर एव १५ प्रत्यनन्तरः । हेतुवचनान्द्यवहितनिवृत्तिः पापकारी स्ववृत्तिपरित्यागेपि नैवं मन्तव्यं शास्त्रातिक्रमकृतस्तत्र न विशेषो वैश्यशूद्रेष्वपीति ॥ ८१ ॥
तथा चाह
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।। कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ।। ८२ ।
१ फ - कणिक्पशु कृषिर्वशः, वणिक्पशु, ण - कृविशः । २ र णा । ३ र करा ।
For Private And Personal Use Only
[ दशमः