SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । अनार्यमार्यकर्माणमार्य चानार्यकर्मिणम् ॥ संधार्याब्रवीद्धाता न समौ नासमाविति ॥ ७३ ॥ अनार्यः शूद्रः । स आर्यकर्मा द्विजातिशुश्रूषादिरंतः पाकयज्ञयाजी च देवद्विननमस्कारपरः। आर्यों ब्राह्मणादिः। सोनार्यकर्मा प्रतिषिद्धाचरणो विहितकर्मत्यागी। तावुभौ संप्रधार्य तद्गुणत्वेनावगम्य तयोः किं कस्यचित्सातिशयो गुणः कस्याश्चिद्वाऽन्ते निरूपणबुद्धिः संप्रधार्य धाता प्राजपतिर्मनुर्बुद्धा निरूप्याब्रवीत् न समौ जातेर्गरीयस्या उत्कृष्टगुणोऽपि शूद्रतुल्यः स्यात् । पुनराह समौ किं जात्या तूत्कृष्टयाऽपि बहुदोषावगहीतस्यैतदुक्तं भवति । न जातिबलमाश्रित्य नरो माननीयः किंतु गुणा माननीयाः। न गुणहीनं जातिः परित्रातुमलं । प्रायश्चित्तोपदेशवैयर्थ्यप्रसङ्गात् । “अनार्यायां समुत्पन्नः" इत्यत आरभ्य यावदयं श्लोको वर्णसङ्करनिन्दाकर्मप्रशंसाओं नात्र किंचिद्विधीयते १० प्रतिषिध्यते वा । नापूर्वार्थो ज्ञाप्यतेऽभिलक्षणवत् । तस्मात्प्रशंसा एवैते ॥ ७३ ॥ ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः॥ ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् ॥ ७४ ॥ आपद्धर्माणामुपोद्धातो योनिः कारणं । ब्राह्मणा ब्रह्मयोनिस्थास्ते षट्कर्माण्युपजीवेयुरनुतिष्ठेयुः । अनेकार्था धातवो यथाक्रमं यथाविकारं यस्मिन्कर्मणि योऽधि- १५ कारी कानिचिद्विध्यर्थानि कानिचिद्दष्टार्थानि ॥ ७४ ॥ __अध्यापनमध्ययनं यजनं याजनं तथा ॥ दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ॥ ७५ ॥ प्रथमेऽध्याये शास्त्रस्तुत्यर्थ एषां पाठः । इह तु विध्यर्थम् । यद्यपि तेषां केवलानां विधिरुक्तस्तथापीह समस्य निर्दिश्यते सौहार्दैन विध्यन्तरसापेक्ष्यमेवेदं रूपं वचनाच्चैतेषां २० कर्मणामतो यथाविहितमनूद्य वक्ष्यमाणोऽर्थो विधीयते ॥ ७५ ॥ . षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ॥ याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ ७६ ॥ कर्मत्रिकविभागः स्पष्टप्रयोजनः । एक त्रिकं दृष्टार्थमुपात्तं । सामर्थ्यादन्यस्यादृष्टार्थता । विशुद्धोऽपापकर्मा । एवं शूद्रोपि विशुद्धः प्राप्नोति । को भवतो मत्सरः स्मृत्यन्तर- २५ विरोधः प्राप्नोति । प्रशस्तानां स्वकर्मसु द्विजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाचेति । एवं तर्हि यथाऽविरोधो भवति तथा व्याख्येयं । न ह्यविरोधे संभवति विरोधो न्याय्यः । अपि चानुवाद एवायं 'राजतो धनमन्विच्छेत्' इति । एवमादावस्यार्थस्य विहितत्वात्॥७३॥ १ फ-दितः। २ र-सौ हा देश्यते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy