SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८ मेधातिथिभाष्यसमलंकृता। [दशमः तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ॥ बैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ ६८ ॥ एवं च कृत्वोभावपि चण्डालः पाराशवश्चासंस्कार्यावनुपनेयौ । अत्र हेतुमन्निगदोऽर्थवादः । वैगुण्याजन्मतः पूर्व ब्राह्मणाद्यः शूद्रायां जातः सत्यपि बीजप्राधान्ये ५ विगुणमेतस्य जन्म योनिदोषात् । उत्तरश्चण्डालः । स प्रतिलोमोऽत्यन्तप्रातिलोम्यात् सत्यपि क्षेत्रप्राधान्ये पितृदोषात् ॥ ६८ ॥ सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ॥ तथाऽऽर्याजात आर्यायां सर्व संस्कारमहति ॥ ६९ ॥ पूर्वोक्तावसंस्कारों स्वजातिनास्तु संस्कार्या इत्युभयत्राप्यर्थवादः । अत एतदेव १० स्थितम् । “कचिट्ठीनं क्वचिद्योनिः” इति । यथोपदेशात् एकान्तरपरिग्रहन्तु न युक्तः ॥ ६९ ॥ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः॥ बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ ७० ॥ यथा त्रय एते पक्षास्तेषां कश्चित्पक्षः केनचित्परिगृहीतः । केचिदाहु/जमेव १५ ज्यायस्तथा च ब्राह्मणाज्जातः क्षत्रियादिस्त्रिषु मातृजातित उत्कृष्टः । अन्ये पुनराहुः । क्षेत्रं श्रेष्ठं यतः क्षेत्रियो यत्र क्षेत्रे जातः तज्जातीयो भवति तस्यैव च तदपत्यं । अपरे मन्यन्ते । उभये बीजक्षेत्रे ज्यायसी । तदुक्तं " सुवीनं चैव सुक्षेत्र " इति । तदेतत्सर्वमारोचयमान आह तत्रेयं तु व्यवस्थिति: इयमत्र निरूप्यावस्थितं ॥ ७० ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ॥ २० अबीजकमपि क्षेत्र केवलं स्थण्डिलं भवेत् ॥ ७१ ॥ अक्षेत्रे ऊपरे उत्सृष्टमुप्तमपि बीनमन्तरवादत्वैव फलं नश्यति। अबीजकमयोग्यबीजक क्षेत्रं वा स्थण्डिलमेव भवेत्केवलं ततो न फलं लभ्यत इत्यर्थः ॥ ७१ ॥ यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ॥ पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते ॥ ७२ ॥ पूजिताः सर्वेण केनचित्प्रणम्यन्ते । प्रशस्ताः स्तुतिवचनैः स्तूयन्ते । तस्माद्वी विशिष्यत इति बीजप्राधान्यवादिनस्तदेतदयुक्तमित्युक्तं " तत्रेयं तु व्यवस्थितिः" इति । अथवा बीजप्रभावेनेति न बीजप्राधान्यं दर्शितमपि तु दूषणमेव । यदा शक्यन्ते बीनप्राधान्यान्मन्दपालादीनां तिर्यग्जा ऋषय इति बीजप्राधान्यं तद्दर्शनात् । न तत्र बीजप्राधान्येन तदपत्यानामृषित्वमपि तु तपःश्रुतादिनेन प्रभावेन धर्मविशेषेण ।। ७२ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy