________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः । ब्राह्मणपदसन्निधानादुत्तरत्र च “शूद्रो ब्राह्मणतामेति" इति वचनात् ब्राह्मण्यप्राप्तिः शूद्रवर्णस्य विज्ञेया । अनयैव कल्पनया पञ्चमे वैश्यायां जातस्य वर्णस्य तृतीये क्षत्रियायामत्रापि स्त्रीत उत्कर्षः । एवं वैश्यस्य तृतीये क्षत्रियत्वं शदायां जातायाः कुमार्या वैश्यान्तरेण संयोगे तृयीये जन्मनि वैश्यत्वं क्षत्रियनातायाः शुद्रायाः पञ्चमे युग इति । युगशब्दो जन्मवचनः । अश्रेयानिकृष्टजातीयः श्रेयसीमुत्कृष्टानातिं गच्छति प्राप्नोति । आङ् ५ अभिविधौ । एव एवार्थः ॥ ६४ ॥
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ॥
क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ ६५ ॥ शूद्रो ब्राह्मणतामेतीत्युक्तोऽर्थः । ब्राह्मणश्चैति शूद्रताम् । ब्राह्मणोऽत्र पारशवो ब्राह्मणजातो विज्ञेयः । स चोक्तलक्षणशूद्रां यदि परिणयते तदाऽपकर्ष जन्मनि १० प्राप्नोति । तृतीय इति व्याचक्षते । एते यथोक्ते युगपरिवर्त उत्कर्ष प्राप्तं यथासंस्कारैः कर्मभिश्चाधिक्रियन्ते ॥ ६५ ॥
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यहच्छया ॥
ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं केति चेद्भवेत् ।। ६६॥ किंशब्दः क्षेपे । यदि बीजप्राधान्याद्धीनजातीयासु जाता मातृजातेरुत्कृष्टाः क्रमेण १५ पितृजातितां प्राप्नुवन्ति । इदं तर्हि क्षेत्रप्राधान्येऽपि द्रष्टव्यं । यथा क्षेत्रनः पुत्रोऽतश्च यथाऽनायर्यायां शूद्रायां ब्राह्मणाज्जात उत्कृष्टो भवति यदृच्छया यथाकथंचिदनूदायामपि । एवं ब्राह्मण्यामनार्याच्छूद्राक्षेत्रप्राधान्येन श्रेयस्त्वम् । यथोक्तं " क्वचित् बीजं क्वचिद्योनिः” इति ॥ ६६ ॥
जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः ॥
जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ ६७ ॥ नार्या स्त्रियामनार्यायां हीनजातीयायामार्याज्जात उत्कृष्टजातीयाद्राह्मणादार्य एव भवेत् । किं ब्राह्मणजातीयत्वं नेत्याह । गुणैर्गुणतो गोण्या वृत्त्या । पाकयज्ञाद्यधिकारमात्रेण वक्ष्यमाणानार्यापेक्षयाऽऽर्य इत्युच्यते । अनार्याच्छूद्रादार्यायां ब्राह्मण्यां जातोऽनार्य एवैष निश्चयः । एतदुक्तं भवति । यावद्वचनमेव प्राधान्यमवतिष्ठते २५ नानुमानेन शक्यमन्यत्प्रसंजयितुमतः समानजातीयागमनमेव युक्तं क्षेत्रप्राधान्यं क्षेत्रज एवमन्यत्र ॥ १७॥
१र-तु। २ क्वेति चेद्भवेत् केनचिद्भवेत् ( य, ल)
For Private And Personal Use Only