________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ दशमः
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ॥ स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ ६२॥
अनुपस्कृतो धनमगृहीत्वा अभ्यवपत्तिरनुग्रहः । बाह्यानां प्रतिलोमानां सिद्धिकारणं उत्कृष्टजातौ जन्मसिद्धेः सिद्धिहेतुत्वमेवमुच्यते । तादृशं जन्म लभन्ते यथाधिकृता ५ भवन्ति । स्वर्गादिप्राप्तिर्वा सिद्धिः ॥ १२ ॥
* अहिंसा सयंमस्तेयं शौचमिन्द्रियनिग्रहः ॥
एतं सामासिक धर्म चातुर्वण्र्येऽब्रवीन्मनुः ॥ ६३ ॥
शौचं मृज्जलादिबाह्यगतं सामासिकं समस्तस्य सर्वमनुष्यभेदनातेरुक्तं । न ब्राह्मणादिजातिविभागेन व्याख्यातमन्यत् । यद्यहिंसाप्रतिलोमानां धर्मः स्यात्कथं तर्हि तदुक्तं ___मत्स्यघातो निषादानां बिलौको वधवन्धनम् । क्षत्रादीनामरण्येयं पशुहिंसनमेव च" ॥ केचिदाहुः । ये जीविकाहेतुतया वध्यत्वेनोक्तास्ततोऽन्यत्राहिंसा । अन्ये मन्यन्ते अहिंसास्तेषामभ्युदयसाधनहेतुत्वेन धर्मो न तु प्रतिषेधो हिंसायाः संमत इति । यथा " न मांसभक्षणे दोष" इतिवत् । यद्यहिंसाधर्मस्तेषां कथं तर्हि तैर्जीवितव्यं । यथा
कुतश्चिदवगमस्तेषामुत्पन्नः हिंसानिवृत्तिों धर्मायेति चेत्तदा को जीवनोपायः । अन्याश्च १५ वृत्तयः प्रतिवर्णनियता अध्यापनादयस्तावदत्यन्तासंभवादप्राप्ताः कृप्यादयोऽपि वैश्य
नियताः । शुद्रस्य सेवाऽन्या वा साधारणी वृत्तिरस्ति । यथा “वर्तेरन्विद्याशिल्पं" इत्यत्र दयिष्यामः । यदपीदमुच्यते " अतिनिन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ” इति तत्र किमस्ति निन्दिततरमन्यदतो हिंसायाः न च मत्स्यघातो द्विजानामुपयुज्यते ।
श्राद्धेऽतिथिभोजनादौ च कदाचित्क उपयोगो न सार्वकालिको जीविकाभावः । तस्मान्न २० घातादिस्वतंत्रम् ॥ ६३ ॥
शूद्रायां ब्राह्मणाज्जाता श्रेयसा चेत्मजायते ॥ अश्रेयान् श्रेयसी जातिं गच्छत्या सप्तमायुगात् ।। ६४ ॥
गर्भे गृह्णाति गर्भश्च श्रवणाज्जात इति पुल्लिङ्गनिर्देशे पित्र्यर्थे योग्यता विज्ञेया । अत इदमुक्तं भवति । शूद्रायां ब्राह्मणात् या जाता कुमारी सा चेच्छ्रेयसा जात्युत्कर्ष२५ वता ब्राह्मणेनैव प्रजायते विवाहादिसंस्कृताऽपत्योत्पत्तिहेतुसंबन्धं प्राप्नोति । तस्यामपि
यदि कुमारीः जायते सा ब्राह्मणेनैव विवाह्यते । एवमनया परंपरया सप्तमे पुरुष प्राप्त ब्राह्मण्यां यस्तत्र जायते तस्य भवति श्रेयसेति यद्यप्युत्कृष्टजातीयमात्रे वर्तते तथापीह
१ ख-त्यमक्रोधः २ र-एवं । ३ र-नवान्या। ४ र-ताः, फ-तः । ५ ख-ग । ६फ-श्रेयसे सति । श्राद्धं कर्मातिथेयं च दानमस्तेयमार्जवम् ॥ प्रजनं स्वेषु दारेषु तथा चैवानुसूयता ॥१॥
For Private And Personal Use Only