________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
रात्राविति। तत्साक्षादेषां न दातव्यं । प्रेष्यैः कैश्चित्पूर्वोक्तेन प्रकारेण दापयितव्यो रात्रौ स्पर्शाशङ्कयाऽन्तामनगरचर्याप्रतिषेधः ॥ ५४ ॥
दिवा चरेयुः कार्यार्थ चिन्हिता राजशासनैः ॥
अवान्धवं शवं चैवं निर्हरेयुरिति स्थितिः ॥ ५५ ॥ दिवा विचरन्ति कार्यार्थ क्रयविक्रयस्वकार्यसिद्धयर्थ राजकार्याय वा चरेयुनगरोत्सव- ५ प्रेक्षादिनिमित्तम् । तत्रापि च चिन्हितराजशासनैरुपलक्षिता राजादिष्टैर्वज्रादिचिन्हैवंध्यवधशासनैर्वा परशुकुठारादिभिः स्कन्धारोपितैः ॥ ५५ ॥ तथा चाह
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासासि गृह्णीयुः शय्याश्चाभरणानि च ॥ ५६ ॥ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ॥
आर्यरूपमिवानार्य कर्मभिः स्वैर्विभावयेत् ॥ ५७ ॥ वर्णादपेतं चातुर्वादृष्टव्यं । अविज्ञातं सत्यां शङ्कायां जारजातं वक्ष्यमाणैः कर्मभिः स्वभावातिशयैश्च निश्चिनुयात् । हीनकर्मरतिः क्रूरकर्मा च सत्यां शङ्कायां कलुषयोनिजो जारजातो वेदितव्यः ॥ १७ ॥
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ॥
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ ५८ ॥ अनार्यों द्वेषमत्सरप्रधानः । निष्ठुरः स्वार्थपरः । क्रूरो लोभहिंसापरः । निःक्रियात्मा विहितक्रियावर्जितः । एतैः स्वभावैः कलुषयोनिता व्यज्यते ॥ १८ ॥
पिव्यं वा भजते शीलं मातुर्वोभयमेव वा ॥ ___ न कथंचन दुर्योनिः प्रकृति स्वां नियच्छति ॥ ५९॥ दुर्योनिः संकीर्णजन्मा । प्रकृति स्वामात्मीयं कारणं न नियमेन गृह्णाति ॥१९॥
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ॥ संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ ६ ॥
तस्य शीलं येन जातो न तु यस्य क्षेत्रं स लोके प्रसिद्धः ॥ १० ॥ २५ यत्र त्वेते परिध्वं साज्जायन्ते वर्णदूषकाः॥
राष्ट्रियैः सह तद्राष्ट्र क्षिप्रमेव विनश्यति ॥ ६१॥ तस्माद्वर्णसंकरो राज्ञा परिवर्जनीयः । राष्ट्रिया जानपदाः । राष्ट्रममात्यादयः ॥ ११ ॥
For Private And Personal Use Only