SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ८१४ मेधातिथिभाष्यसमलंकृता । मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ॥ मेदान्ध्रचुचुमनामारण्यपशुहिंसनम् ॥ ४८ ॥ ताष्टिर्दारुक्षणं तक्षा कर्म ॥ ४ ॥ क्षत्रुग्रपुकसान बिलौको वधबन्धनम् 11 धिग्वणानां चर्मकार्य वेणानां भाण्डवादनम् ॥ ४९ ॥ बिल कसोऽहिन कुलगर्गरादयः । तेषां वधबन्धनं क्षत्रादीनां जीविका । चर्मकार्य कवचादिसीवैनमुपानद्रथनमित्येवमादि । भांडवादनं मुरजार्धमुरजादीनाम् ॥ ४९ ॥ Acharya Shri Kailassagarsuri Gyanmandir चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ॥ वसेयुरेते विज्ञाना वर्तयन्तः स्वकर्मभिः ।। ५० ।। बहिर्ग्रामनिवासिनैः पर्वर्तलक्षणाप्रदेशे निवसेद्यः विज्ञाताविज्ञातिचिन्हं विदुषां यद्यस्य कर्म विहितं स तेनैव जीवेत् । उत्कृष्टं कर्मसंकरं कर्तुं न लभते ॥ १० ॥ चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः ।। अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥ ५१ ॥ 1 प्रतिश्रयो निवासस्तेषां ग्रामान्निष्क्रान्तः स्यात् । अपपात्राश्चिरवसानीयास्तैर्येषु १९ पात्रेषु भुक्तं तानि न संस्कार्याणि त्यक्तव्यानि । सौवर्णराजताभ्यामन्यानि । तयोः शुद्धि1 विशेषा उक्ताः । अथवाऽवपात्राय तदीयेषु च शक्तेषु पात्रेषु सक्तुभक्तादि न दातव्यं । भूमिष्ठे पात्रेऽन्यहस्तस्थे वा दत्वा तत्पात्रं भूमौ स्थितं तद्गृह्णीयुः भिन्नं वा पात्र वक्ष्यति “ भिन्नभाण्डे च भोजनम्" इत्यादि । धनमेषां श्वगर्दभगवाश्वादि सुवर्णरजतादि धनत्वेन गृह्णीयुः ॥ ५१ ॥ वासांसि मृतचेलानि भिन्नभाण्डेषु भोजनम् ॥ काष्र्णायसमलङ्कारः परिव्रज्या च नित्यशः ।। ५२ ॥ सर्वकालं परिव्रज्या नैकत्रस्थाने वसेयुः ॥ ५२ ॥ न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन || व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ।। ५३ । [ दशमः १५ सह न कर्तव्या इत्यर्थः । विवाहो दारग्रहणादिः । सोऽप्येवमेव ॥ ५३ ॥ समयः संकेत एककार्यता । संगतिरित्यनर्थान्तरं । एकत्र स्थानासनविहारास्तैः अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ॥ रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ ५४ ॥ १ र-तरक्षणम् । २ र शीवन । ३ र न्यः । ४ र - स्फासा लक्षण - ५ फ-तो । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy