________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
व्यपदेशान्तरं प्रवर्तते । यद्यपि सा जातिर्न निवर्तते तत्पुत्रपौत्राणां झज्जकण्टकादिजात्यन्तरमेव व्यपदेशहेतुर्कमिति ब्राह्मणातिक्रमेण ब्राह्मणविधिविहितातिक्रमणेत्यर्थः । अथवा शास्त्रार्थसंशये प्रायश्चित्ते वा परिषद्मनाभावः ॥ ४३ ॥
पौण्ड्रकाश्चौड्द्रविडाः काम्बोजा यवनाः शकाः ॥
पारदापह्नवाश्चीनाः किराता दरदाः खशाः ॥ ४४ ॥ पुंडूकादयः शब्दाः परमार्थतो जनपदशब्दा इह तु क्षत्रियेषु मुख्यास्तत्संबन्धत्वाज्जनपदेषु वर्तन्त इत्येतद्दर्शनमाश्रितं । यथालुग्विधौ तस्य निवासो जनपदे लुगिति न तु यथा लुग्योगात्प्रख्यानादिति । नैतेषु देशेषु बाहुल्येन चातुर्वण्यमस्तीत्येतदालंबनं वृषलत्ववचनं । यदि वा पुंड्रादयः शब्दाः कथंचिद्देशसंबन्धेन विना दृश्यन्ते तदैतज्जातीया वेदितव्याः । महाभारतादौ क्षत्रिया वर्ण्यन्ते । तथाऽऽद्यत्वेऽप्येते क्षत्रिया एवेति कस्य- १० चित् भ्रान्तिः स्यादत एवमुक्तमेते वृषला इति । ये चैते दिगन्तवासिनः किरातवैनदरदादय-स्तेषामप्राप्तरूपं वेदेनानूद्यते न जनैमियान्नांतमियादिति ॥ ४४ ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः ॥
म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः॥ ४५ ॥ असदविद्यमानार्थासाधुशब्दान्वया वाक् म्लेच्छोच्यते । यथा शबराणां किराताना- १५ मन्येषां वान्त्यानाम्। आर्यवाच आर्यावर्तनिवासिनस्ते चातुर्वर्ण्यादन्यजातीयत्वेन प्रसिद्धास्तदा दस्यव उच्यन्ते । एतदुक्तं भवति । न देशनिवासेन म्लेच्छवाक् संकरत्वे कारणमपि तु यथोक्तबर्बरादिशब्दप्रसिद्धिर्मुखादिजानां बहिः क्रियते ब्राह्मणादिशब्दैरप्रसिद्धैरित्यर्थः । ते सर्वे दस्यव उच्यन्ते ॥ ४५ ॥
ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः॥
ते निन्दितैर्वतयेयुर्द्विजानामेव कर्मभिः ॥ ४६॥ अपसदा अनुलोमाः प्रतिलोमाः अपध्वंसजा गोबलीवर्दवद्भेदः । द्विनानामुपयोगिभिः प्रेष्यकर्मभिर्वर्तयेयुः आत्मानो निन्दितैः प्रेष्यकार्यत्वान्निन्दितानि ॥ ४६॥
तथा च वक्ष्यते * मूतानामश्वसारथ्यमंवष्ठाना चिकित्सनम् ॥
बैदेहकानां स्वीकार्य मागधानां वणिक्पथः ॥ ४७ ॥
स्वीकार्यमन्तःपुररक्षाकारित्वं । वणिक्पथः स्थलपथवारिपथादिप्रसिद्धः॥ १७॥ १ फ-अपि। २ ख-वांध्र । ३ जनपदे लुप् (व्या. सू. ४।२।८१) ४ फ-तमिया । ५ फ
-शब्दतया।
For Private And Personal Use Only