________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१२
मेधातिथिभाष्यसमलंकृता।
[ दशमः
यान्येतान्यनन्तरमुद्दिष्टानि त्वक्सारव्यवहारादीनि कर्माणि तैरप्रसिद्धाः सोपाकादिनामतया तज्जातीया वेदितव्याः । पित्रा मात्रा च विभागेन दर्शिताः । प्रच्छन्ना वा प्रकाशा वा तज्जातीया वेदितव्याः। आयोगव्यां मात्रा विभागो निषादाद्वैदेहिकादान्ध्रभेदाविति पित्रा दर्शितो विभागः ॥ ४० ॥
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ॥ शुद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः॥४१॥
स्वजातीयास्त्रैवर्णिकेभ्यः समानजातीयास्तु जातास्ते द्विजधर्माण इत्येतत्सिद्धमेवानद्यते । अनन्तरजानां तुल्यताभिधानं तद्धर्मप्राप्त्यर्थम् । अतन्तरजा अनुलोमा ब्राह्मणात् क्षत्रियवैश्ययोः क्षत्रियाद्वैश्यायां जातास्तेऽपि द्विनधर्माण उपनेया इत्यर्थः । उपनीताश्च द्विजातिधर्मैः सर्वैरधिक्रियन्ते ।
ननु च "ताननन्तरनाम्न" इति मातृजातीयत्वमेषामुक्तमेव । ततश्च तज्जात्या समेषुः धर्मेषु सिद्ध एवाधिकारः । सत्यम् । अनन्तरनाम इति नामग्रहणात्संवैषां न तु जात्यतिदेश इति कस्यचिदाशङ्का स्यादतः स्पष्टार्थ " षट्सुता द्विनधर्मिण" इति वचनारम्भः ।
धर्मिण इतिशब्दस्य धर्मोऽर्थनीयः । ये पुनरपध्वंस जाः संकरजास्ते शूद्राणां सधर्माणः १५ समानाचारास्तद्धभैरधिक्रियन्त इत्यर्थः । प्रतिलोमानां तु विशेषो वक्ष्यते । अनन्तरग्रहण
मनुलोमोपलक्षणार्थमेव । तेन व्यवहितोऽपि ब्राह्मणाद्वैश्यायां जातो गृह्यते । षटसंख्यातिरिक्त त्वान्न शूद्रायां पारशवः ॥ ४१ ॥
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
उत्कर्ष चापकर्ष च मनुष्येष्विह जन्मतः ॥ ४२ ॥ २० त एतेऽनन्तरजाः तपःसामर्थ्येन वीजसामर्थ्येन युगेयुगे जन्मनि जन्मनि उत्कर्षमपकर्षे च गच्छन्ति । तद्वक्ष्यामः । शूद्रायां ब्राह्मणाऽजात' इत्यत्र ॥ ४२ ॥
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः॥ वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ ४३॥
यदुक्तं ' स्वकर्मणां त्यागेनेति' तस्यैवायं प्रपञ्चः । क्रियालोपो यत्र २५ संस्कार्यतया संबध्यते तथोपनयनादिषु यत्र वा कर्तृतया यथा नित्याग्निहोत्रसंध्यो
पासनादिषु तासां लोप उभयासामप्यननुष्ठानमतश्च न केवलमुपनयनसंस्काराभावेन जातिभ्रंशः । अपि तूपनीतानां विहितक्रियात्यागेनापि । तथा चाह शनकैरिति पुत्रपौत्रादिसंततः प्रभृतिशूद्रत्वं न तु जातस्यैत्र । उपनयनाभावे तु तस्यैव
१ फ-स्वाजातिजा २ फ-वचनान्तरं ( न०) । ३र-धर्ममर्थनीयाः । ४ र-येन । ५ अग्रे १०१६४।६ ख-संभते ।
For Private And Personal Use Only