SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir <१० मेधातिथिमाष्यसमलंकृता । [दशमः शास्त्रव्यतिक्रमेण वर्तमाना मिथुनीभवन्ति । हीनाहीनानित्यकं पदं । अथवा हीनाः सन्तोऽहीनान्प्रसूयन्ते जनयन्तीत्यर्थः । वर्णान्पंचदशैवेति · नास्ति तु पंचम ' ( १०४ ) इति पंचमस्य वर्णाभावात्पंचदशसु वर्णत्वमुपचाराद्रष्टव्यम् ॥ ३१ ॥ प्रसाधनोपचारज्ञमदासं दास्यजीवनम् । सैरन्धं वागुरागृत्तिं सूते दस्युरयोगवे ॥ ३२ ॥ प्रसाधनं मण्डनमुपचारोऽनुवृत्तिः । केशरचनाकुंकुमचन्दनादिनाऽनुलेपनविच्छित्तिः पाणिपादविमर्दनं प्राप्तिलाभकर्मकार्यक्षप्रकारिता कार्याणामवसरमित्यादिविधिज्ञ एवमुच्यते । अदासं दास्यजीवनं वत्सरभृत्या षण्मासभृत्या च कंचन सेवते । अथवैतद्विधिज्ञतया :सर्वोपस्थापको भवति जीवनाय मता वागुरा वृत्तिार्द्वतीयोऽयं वृत्युपायः वागुरा अरण्यपशुहिंसनं । तच्चार्याणां देवपित्र्यर्थ क्षुधार्थं च । न तु व्याधवत्पशून्हत्वा मांसविक्रयेण जीवनं राजनियोगबिहुप्राणिवधो जीविकार्थः सैरन्ध्र नामानं सूते उत्पादयति वर्णकः दस्युर्नाम वक्ष्यमाणः अयोगवे जातिविशेषे सामर्थ्यात्स्त्रत्विलाभः ॥ ३२ ॥ मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ॥ नन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ ३३ ॥ ... मैत्रेयकं नाम्ना वर्णमायोगव्यां संप्रभूयते ननयति । वैदेहनामा ब्राह्मण्यां वैश्याज्जातो यः। पाठान्तरं मैरेयकमिति । माधूकमुपमापदमेतत् मधूककुसमतुल्यं । मधुरभाषित्वात्। अथवा मधुकायतीति — अन्येष्वपि दृश्यते' ( व्या. सू. ३।२।१०१ ) इति डः । अन्येषामपीति दीर्घः । स्वार्थिकेन चादिवृद्धिस्तस्य वृत्तिः । नन् मनुष्यान् प्रशंसन्ति अतस्तं सर्वदा बन्दीति यः कथ्यते । अरुणोदये प्रबोधकाले घण्टां ताडयत्याहन्ति २० राज्ञामीश्वराणां चान्येषां प्रबोधाय । आयोगव्यामेवायं जनयति प्रकृत्वात् ॥ ३३ ॥ निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्त्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ ३४॥ प्रतिलोमप्रकरणान्न यः शूद्रायां ब्राह्मणाज्जातो निषाद पूर्वमुक्तः स इह गृह्यते । अपि तु दस्युवत्प्रतिलोम एव मार्गवं नाम प्रतिलोमं मूते आयोगव्यामेव यस्येमे २९ अपरे नामनी दासः कैवर्त इति । आर्यावर्तः प्रसिद्धः । तस्य वृत्तिों कर्मणा नौवाहनेन जीवति ॥ ३४ ॥ मृतवस्त्रभृत्स्वनार्यासु गर्हितानाशनासु च ॥ भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ॥ ३५॥ १र-सर्वमुपस्थापको। २र-ख-सतं वागुरा-जीवनाय ससंवागुरा वृत्ति- । ३ ख-अन्ये ४र-मधुकाय तद्वति; ख-मधुकाश्च इति । ५ र-मार्गाव । ६ फ-मृतवस्त्रभृत्सु नारी । ७ ख-क्रियाः। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy