________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
, मनुस्मृतिः।
..... ते चाप्यायोगवादयः षट् बाह्यान् सुबहून् परस्परदारेषु. जनयन्ति । तद्यथाऽऽयोगवः क्षत्रियायां क्षत्राऽऽयोगन्यां परस्परमात्मापेक्षया गर्हितान् जनयन्ति । तद्यथाऽऽयोगवः क्षत्रियायामात्मनो बाह्यतरं जनयति । ततोऽपि बाह्यतरं चण्डालाभ्यः । एवं सर्वत्र ॥ २९ ॥
यथैव शूद्रो ब्राह्मण्या बाह्यं जन्तुं प्रसूयते ॥
तथा बाह्यतरं बाह्यश्चातुर्वण्र्ये प्रसूयते ॥ ३०॥ एवं परस्परगमने स्त्रीप्रतिलोमानां पूर्वेण बाह्यतरेण बाह्या जाताः । इदानीं चातुर्वर्ण्य कथ्यते । सूयति निनात्यन्तसमानार्थोऽत्र प्रकरणे प्रयुक्तः । प्रसूयते जनयतीत्यर्थः । तदुत्तरश्लोकेन निर्दिश्यते ॥ ३० ॥ प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः ॥
१० - हीनाहीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु ।। ३१ ॥
एकैकस्य तु वर्णस्य संकीर्णयोनयो भवन्ति । कस्यचिदनुलोमाः कस्यचित्प्रतिलोमाः कस्यचिदनुलोमप्रतिलोमाः। ब्राह्मणस्यानुलोमाः शूद्रस्य प्रतिलोमा एव । क्षत्रियवैश्ययोरनुलोमाः प्रतिलोमाः । क्षत्रियस्य द्वावनुलोमौ एकः प्रतिलोमो वैश्यस्यैकोऽनुलोमो द्वौ प्रतिलोमौ । एवमेते द्वादशानुलोमप्रतिलोमाः । एतेषामेकैकस्य चतुर्पु गच्छतश्चत्वारो १५ भेदा भवन्ति ते च केचिद्धीनाः केचिदहीना । बाह्यतरास्तु सर्व एव । बाह्यतरत्वं मातापितृनातेर्विप्रकर्षः कर्मभ्यो हीनत्वात्तदेतदुदाहरणैः स्फुटीक्रियते । प्रतिलोमांस्तावद्गृहीत्वा वक्ष्यामः । आयोगवो वैश्यायां शूद्राज्जातः शूद्रायां वैश्यायां क्षत्रियायां ब्राह्मण्यां चतुरो जनयति । सोऽयमात्मना - सह पंचधाऽऽयोगवः । एवं क्षत्रियचण्डाला अपि । एवं शूद्रास्त्रयः पंचकाः पंचदशधा भवन्ति । एवं वैश्यप्रभवौ द्वौ प्रतिलोमौ क्षत्रियायां २० मागधो ब्राह्मण्यां वैदेहकः शूद्रायामनुलोमस्तत्र यः शूद्रायां जातः स यदा चातुर्वर्ण्य जनयति तदैष एव प्रकारः । स यदा शूद्रां गच्छति तदा हीनतरो वर्णो जायते तदपेक्षया। एवं वैश्यां गच्छन्हीनतरं जनयति । एवं क्षत्रियायां ब्राह्मण्यां च केवलशूद्राज्जाता उत्कृष्टा एवमित्यपेक्षावशाद्धीनांश्चाहीनांश्च । एवं क्षत्रिये ब्राह्मणे च द्रष्टव्यं । ब्राह्मणस्य त्वयं विशेषः । अनुलोमा एव तस्य भवन्ति । एवं चतुर्वर्णानां प्रत्येकं पंचदशधा भेदाः २५ षष्ठिः संपद्यन्तो मुख्याश्चत्वारो वर्णाः सा चतुःषष्टिर्भवति । परस्परसंपर्कात्तेषामन्येऽनन्तभेदा भवन्ति । तदुक्तं । " ते चापि बाह्यांत्सुबहून् ” इति (१०।२९। ) । प्रतिकूलं .
१०२-१०३
For Private And Personal Use Only