SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ मेधातिथिभाष्यसमलंकृता । [ दशमः व्यतिषङ्गः संबन्धः । इतरेतरमनुलोमानामनुलोमैः प्रतिलोमैश्चैवं प्रतिलोमानामन्यैः प्रतिलोमैरनुलोमैश्च वक्ष्यमाणसंायै वचनम् ॥ २५ ॥ सूतो वैदेहकश्चैव चण्डालश्च नराधमः ॥ मागधः क्षतृजातिश्च तथाऽयोगव एव च ॥ २६ ॥ उक्तलक्षणा एते प्रातिलोमा उत्तरार्ध पुनरुपन्यस्यन्ते ॥ २६ ॥ एते षट्सदृशान्व ये षु ॥ मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥ २७ ॥ एते सूतादयः प्रतिलोमाः स्वयोनिसदृशान् जनयन्ति तज्जातीयानित्यर्थः । तद्यथा । सूतः सूतायां सूतमेव जनयति । एवं चण्डालः चण्डालायां । ये च मातृजात्याः प्रसूयन्तेऽनुलोमा मातृजातीया ये पूर्वमुक्तास्ताननन्तरानाम्न इति तेऽपि स्वयोनिषु सदृशानेव जनयन्ति । यथाऽम्बष्ठोऽम्बष्ठां तथा वैश्यायामात्मनो हीना वैश्याञ्जनयन्ति । मातृनातित्वस्योक्तत्वात् । अन्ये पुनः पठन्ति — मातृजातौ प्रसूयन्ते ' । अर्थश्वायं । वर्णयोनिषु अम्बष्ठादौ मातृजातौ च वैश्यायां सदृशानेव जनयन्ति । यद्यपि शुद्धवैश्येभ्य उत्कृष्टा अम्बष्ठादयस्तथापि साम्यमुच्यते । वैश्यधर्म उभयेषामधिकारात् । अनुलोमग्रहणं १५ मातृजातिपदसामर्थ्याल्लभ्यते सत्यपि प्रकृतिप्रतिलोमप्रत्यवमर्शकत्वे प्रसज्यत इति । प्रवरासु च योनिषु प्रतिलोमा गच्छन्तो जनयन्ति हीनतरमित्येवं ज्ञेयं वक्ष्यमाणपर्यालोचनया । न हि आयोगवादिमिः स्वजातीयासु जनिता आयोगवादि व्यपदेशं लभन्ते । सदृशग्रहणं तु प्रातिलोम्यं च सामान्येन हीनतरत्वं चावान्तरविशेषमनपेक्ष्य प्रयुक्तं तेनायमत्र वाक्यार्थः । प्रतिलोमेभ्यः समानजातीयासूत्कृष्टजातीयासु च प्रतिलोमा एव भवन्ति ॥ २७ ।। यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते ॥ आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ २८ ॥ अस्य ब्राह्मणस्य त्रयाणां वर्णानामात्मा जायते द्वयोवर्णयोः क्षत्रियवैश्ययोनित्वं जायते तथा स्वयोनौ । एवं त्रयाणां वर्णानां ब्राह्मणो द्विजान् जनयति । एवं बाह्येष्वपि प्रातिलोम्येन वैश्यक्षत्रियाम्यां क्षत्रियब्राह्मणोरात्मा द्विजत्वं भवति । सति च २५ द्विजत्वे उपनयनं कर्तव्यं । वक्ष्यन्ति च एते षट्विनधर्माण इति । एतावांस्तु विशेषः । अनुलोमजा मातृजात्या मातृजातीया । स्तुतिमात्रमिदं वक्ष्यामः ॥ २८ ॥ ते चापि बाह्यान्सुबहूस्ततोऽप्यधिकदूषितान् ॥ परस्परस्य दारेषु जनयन्ति विहितान् ॥ २९ ॥ १र-संक्षेप । १ र अनन्तर । ३ र-च म (सू?) त इति । । फ-दृष्टं । ते ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy