________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
०६
मेधातिथिभाष्यसमलंकृता ।
[ दशमः
एकान्तरे त्वानुलोम्यादंबष्ठोग्रौ यथास्मृतौ ।। क्षत्तृवैदेहको तद्वत्प्रातिलोम्येऽपि जन्मनि ॥ १३ ॥
एकान्तरे वर्णे ब्राह्मणाद्वैश्यायामम्बष्ठः क्षत्रियाच्छूद्रायामुग्रः । एतावानुलोम्येन एवमेकान्तरे प्रातिलोम्येन शूद्रात्क्षत्रियायां क्षत्ता वैश्याब्राह्मण्यां वैदेहः । तौ तुल्यौ भवनादिक्रियासु । न त्वध्ययनादिषु । चण्डाल एकः प्रतिलोमोऽस्पृश्यः । यथा च दिवाकीर्तिरलोके तत्स्पर्श एवं स्नानं वान्येषु प्रतिलोमेषु सूतमागधायोगवानामनन्तरजातानां चण्डालदण्डापूपिकायां सिद्धः स्पर्शादिसंबन्धः ॥ १३ ॥
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।। ताननन्तरनाम्नस्तु मातृदोषात्पचक्षते ॥ १४ ॥ यथा ब्राह्मणात्क्षत्रियायां वैश्यायां च एवं क्षत्रियादुभयोस्ताननन्तरनाम्नः प्रचक्षते। अनन्तराऽनुलोमा या जातिः समाना तेषां मातृजातीया इत्यर्थः। अनन्तरग्रहणमविवक्षितमत एवाह मातृदोषादिति । पितृजात्युत्कर्षेण नो दुष्यन्ते । अतश्च सत्यपि वर्णसंकरत्वे वचनान्मातृनात्याः स्मृताः संस्कारास्तेषु कर्तव्या इत्युक्तं भवति । तर्खेतद्वचनमन्तरेण
क्षत्रियादिसंस्कारास्तेषु लभ्यन्ते । अश्वतरवज्जात्यन्तरत्वात् । वचनेन तु मातृनाता१५ वुक्तायामदोषः ॥ १४ ॥
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते ॥ आभीरोंऽबष्ठकम्यायामायोगव्यां तु धिग्वणः ॥ १५॥ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ॥ प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ १६ ॥ वैश्यान्मागधवैदेही क्षत्रियात्सूत एव तु ॥ प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ १७॥ जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः॥ शूद्भाज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १८ ॥
अयं निषादोऽस्मिँल्लोके न शूद्रायां ब्राह्मणाज्जातो यः प्रागुक्तः । किंतर्हि । २५ यः प्रतिलोमो वक्ष्यमाणः प्रतिलोमाधिकारात्प्रतिलोमादिपुल्कसा जातिः प्रसिद्धा । एवं ____शूद्रान्निषाद्यां कुक्कुटकः ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥
क्षत्तु तस्तथोग्रायां वपाक इति कीय॑ते ।।
वैदेहकेन त्वंबष्ठयामुत्पन्नो वेण उच्यते ॥ १९ ॥ अनुलोमाः स्त्रियः प्रतिलोमाः पुमांसस्तयोः संभवे श्वपाकवेनौ प्रतिलोमजातीयौ ॥१९॥ १ जातांस्तु । २ ख-न । ३ र-प्रतिलोकोऽधिकारात् ।
For Private And Personal Use Only