________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः। अनन्तरासु जातानां विधिरेष सनातनः॥
होकान्तरासु जातानां धय विद्यादिमं विधिम् ॥ ७॥ आयेनार्ध श्लोकेनोक्तमर्थमनुवदति । द्वितीयेन वक्ष्यमाणसंक्षेपः । कान्तरा व्यन्तरा ब्राह्मणस्य शूद्रा । एकान्तरा वैश्या । नातीवश्लोकः सप्रयोजनः ॥ ७ ॥
ब्राह्मणाद्वैश्यकन्यायासंबष्ठो नाम जायते ॥
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ ८॥ एकान्तरा ब्राह्मणस्य वैश्या तत्र जातोऽवष्ठः । स्मृत्यन्तरे ' भृज्जकण्ठ ' इत्युक्तः । यन्तरायां शूद्रकन्यायां निषादः। पारशवश्च निषादशब्दः प्रतिलोमजातीयेऽपि वर्तते । कन्याग्रहणं स्त्रीमात्रोपलक्षणार्थमिति व्याचक्षते । वैश्यस्त्रियामित्यर्थः । एवं सर्वत्र द्रष्टव्यम् ॥ ८॥
क्षत्रियांच्छूद्रकन्यायां क्रूराचारविहारवान् ॥
क्षत्रशूद्रवपुर्जन्तुरुनो नाम प्रजायते ॥ ९॥ आचारविहारौ कायचेष्टावाग्व्यापारश्च तावस्य क्रूरौ भवतः । स्वभावानुवादोऽयं । वपुःशब्दः स्वभाववचन एव । उभयनातिसंभूतत्वादुभयधर्मा भवति ॥ ९ ॥
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ॥
वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः ॥१०॥ अत्र त्रिपादी अनुवाद एव । चतुर्थस्तु पादोऽपसदाभिधानार्थः । एते त्रैवर्णिकानामेकान्तरन्यन्तरस्त्रीजाता अपसदा एते वेदितव्याः । सदा पुत्रार्थफलदा अपशीर्णाः समानजातीयपुत्रापेक्षाया मिद्यन्ते ॥ १० ॥
क्षत्रियाद्विपकन्यायां सूतो भवति जातितः ॥
वैश्यान्मागधवैदेही राजविप्राङ्गनासुतौ ॥११॥ आनुलोम्ये पूर्वो विधिः । प्रातिलोम्ये न त्वयमुच्यते । कन्याग्रहणमुक्तार्थ । वैश्यान्मागधवैदेहौ यथासंख्येन राजस्त्रियां मागधः ब्राह्मण्यां वैदेहः ॥ ११ ॥
शूद्रादायोगवः क्षत्ता चण्डालश्चाधनो नृणाम् ॥
वैश्यराजन्यविमासु जायन्ते वर्णसंकराः ॥ १२ ॥ अत्रापि यथासंख्यमेव वैश्यराजन्य इति निर्देशे जातिपरेऽपि सामर्थ्यात्त्रीलिङ्गप्रतिपत्तिः । मृगक्षीरं कुछटाण्ड इति यथा वृत्तानुरोधात्स्त्रीप्रत्ययो न कृतः॥ १२ ॥
१र-शहायो । २ र-नियंते ।
For Private And Personal Use Only