________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०४
मेधातिथिमाष्यसमलंकृता ।
[ दशमः
१०
स्मृतिपारंपर्य कैश्च विदितार्थेषु प्रयुज्यते भवन्ति व्यवहारहेतवो वसिष्ठब्राह्मणा वासिष्ठाः शृण्वंतीति तद्वदेतद्रष्टव्यं । यथा समाने ब्राह्मणत्वे केचिन्दृगवो वत्सा भारद्वाजा इत्यादिविशेषः स्मृत्येकप्रमाणः तथैव समाने पुरुषत्वेऽमी ब्राह्मणा अमी क्षत्रिया इत्यादिरुपपन्नो व्यवहारः । यैरपि लिङ्गदर्शनत्वे जाबालश्रुतिरुक्ता " सत्यकामो जाबालो मातरमपृच्छत्किंगोत्रोऽहमस्मीति । सैवं प्रत्यब्रवीत् बन्हहं चरन्ती परिचारिणी यौवने त्वामालमे नाहं तद्वेदेति । स एवमुपश्रुत्य हारिद्रुमं तं गौतममियाय । तं होवाच ब्रह्मचर्यं भवतो विवत्स्यामि । स एवमुवाच । किंगोत्रस्त्वमसीति । स प्रत्युवाच । अपृच्छं मातरं सा माता प्रत्यब्रवीत् 'यौवने त्वामि' त्यादि । गौतमो न चैतद्ब्राह्मणो वक्तुमर्हति समिधं सोम्याहर उप त्वानेष्ये" । अस्यायमर्थः । बहुभिरहं यौवने पुंभिः संगताऽभूव न जाने केन जातोऽसीति । गौतमस्तु सत्यवचनानिश्चिकाय ब्राह्मणेनायं जातस्त्वतस्तमुपनिन्येऽतो मन्यामहे स्वैरिणीष्वप्यनूढासु समानजातीयाज्जातासु तज्जातीया भवन्ति । तदेतन्न किंचिद्यतो यौवने त्वामालभे यौवने किल न स्मृतिदृढीभवति । उत्कलिकाबहुलत्वाद्यौवने चेतसः । किंच परिचारिणीपरिचारिकाजीविकाहेतोः क्षुधा
पीडिता बहु विचरन्ती नैकस्मिस्थाने ततो मे न स्मृतिरस्ति भर्तुः किं गोत्रमिति । अतः १५ स्थितमेतत्समानजातीयोढायां जातास्तज्जातीया इति । गौतमम्यापि न ततो वचना
ब्राह्मणोऽयमित्यवगमः । प्रागेवासौ तं ब्राह्मण इति वेद । गोत्रं तु न वेद । गोत्रप्रश्नेन चरणप्रश्नो वेदितव्यः । तत्र उपनयनभेदोऽस्ति । न तु गोत्रभेदेनोपनयने प्रयोजनं । ननु यथा केचिदाहुः जातिप्रश्नोऽयमामिनात्यागोत्र एव जातिमवगमिष्यामि । साक्षाज्जानाति नन्ने हि मुखरता स्यात् ॥ ५ ॥
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् ॥
सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥६॥
अनन्तरास्वव्यवहितास्वानुलोम्येन य उत्पन्नाः पुत्रास्ते सदृशा ज्ञेयाः । न तु तज्जातीयाः। यथा ब्राह्मणात्क्षत्रियायां क्षत्रियाद्वैश्यायां। ते न (?) सदृशा न तु त एव ।
अत्र हेतुः । मातृदोषविगर्हितान् तत्सदृशग्रहणान्मातृत उत्कृष्टाम्पितृतो निकृष्टान् । २५ द्विजैरिति बहुवचननिर्देशान्मातृतश्च ग्रहणादानुलोम्येष्वेतत्संभवति । प्रातिलोम्ये पितृतो
ग्रहणेन मातृतः पितुर्निकृष्टजातीयत्वात् । अत आनुलोम्यग्रहणं पूर्वश्लोके यदुक्तमुत्तरार्धमिति तदिहानर्थकं इतःपरेषु श्लोकेषुपदिश्यते ॥ ६ ॥
र-परिता । २ र-विचरति ।
For Private And Personal Use Only