________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ।
मनुस्मृतिः।
८०३
देवदत्तो यज्ञदत्त इति । अथापि संबन्धव्यपदेशः कर्तव्य इति “कानीनः सहोढ" इत्येव व्यपदिश्यते । सोऽपि चातुर्वर्ण्य सद्भावात्सामान्यरूप एवेति चेद्देवदत्तस्य कानीन इत्यादि जनकेन व्यपदेशः करिष्यते । तस्मादसंबद्धमेतद्यदुच्यते व्यपदेशः कथमिति । एवं तर्हि सर्व एव धर्माश्चातुर्वर्ण्य प्रतिबोध्यन्ते । “ अन्तरे प्रभवानां च " तत्र बहुत्वं ब्राह्मणादिजातिचतुष्टयविषयं । न चैतेषामप्येकजातिः सर्वजातिष्वेतस्य लक्षणस्य प्रवृत्तेः। ५ यथैव ब्राह्मणादूढायां ब्राह्मण्यां जातो ब्राह्मण एवं क्षत्रियादयोऽपि समजातीयमातृपितृ. जाताः । सर्वविशेषाभावे च कतः सामान्यं । न हि शिंशपादिसर्वविशेषाभावे वृक्षत्वसंभवः । अन्तरप्रभवाश्चानुलोमप्रतिलोमाः । तत्रानुलोमा मातृजातीयाः । “ प्रतिलोमास्तु धर्महीना " अन्यत्राहिंसादिभ्यः । ते च सर्वे स्वसंज्ञाभिर्विशेषतो निर्दिष्टाः । न चैषां नामापि तत्रास्ति । तत्र कतमे ते धर्मा यैरमी अधिक्रियेरन् । कतरं च तद्वचनं यदेतानधि. १० कुर्वीत । न हि कश्चिज्जातिविशेषः स्वीयो धर्मविधिरस्ति । सर्ववर्णानामन्तरभावानां चेति शास्त्रादधिकृतत्वाच्च । उच्यते । यत्तावदहिंसादिषु चातुर्वर्ण्यवंचनं तन्नरमात्रोपलक्षणार्थमेव । सत्यपि प्रतिलोमाधिकारे मुख्यार्थवृत्तेः प्रत्युत सहचारिजात्यन्तरेण त्रित्वमेव लक्षयितुं क्षमं नान्तराऽवस्थातुमर्हति । तत्रैव च वक्ष्यामः । इदं चास्ति “शूद्राणां तु सधर्माणः सर्वेऽपध्वजाः स्मृता" इति । अपध्वंसोऽसंस्कारः । स चाष्टविधः। ' व्यभिचारेण १५ वर्णानाम् ' इत्योदिनोक्तः । व्यभिचारः परस्त्रीषु गमनं । सजातीयासु अन्यद्वक्ष्यामस्तस्माद. सत्यपि वर्णत्वे वाचनिक एव तेषामधिकारः । क्षत्रियस्य तु मातृजातीयत्वमेव लिङ्गदर्शनात् पुत्रो व्यामुष्यायणस्य संविधानादितिकर्तव्याविशेषः श्रुतः । अन्येष्वपि श्रौतेषु तस्य विधानान्तरं दृश्यते । तस्मादेव ब्राह्मणादिजातीय एव समभागः स्वपितृव्येण "तस्माद्धर्मेण तं भनेत्" इति । न च यथोक्ते विधौ तदुक्तं । तदा ह्ययं शूद्रधर्मा । धनस्य यज्ञार्थताया. २० मुक्तायां कुतस्तस्य तावद्भागः । कुण्डगोलको क्षेत्रजावेव । शिष्टसमाचारश्चैवमेव । पाण्डुधृतराष्ट्रविदुराः क्षेत्रजाः सन्तो मातृजातीयाः। अतो युक्तः श्राद्धे प्रतिषेधः । किं च पतितोऽपि तत्र प्रतिषिद्धो यस्य सर्वधर्मबहिष्कृतत्वात्प्राप्त्याशङ्कव नास्ति । यत्तु सनातीयेष्वपि स्मृत्यन्तरं तदुक्तानुवादत्वाद्यथासंभवं व्याख्येयं । कार्यपुत्रविषयतया वा। यच्च नितिं लक्षणं भवति तत्कि ब्राह्मणार्थो नैव लोकप्रसिद्धः यत्र ब्राह्मणादिशब्दः प्रयुज्यत एवापध्वंस- २५ निवृत्त्यर्थं च । स च मातापित्रोरेतदेव जातिलक्षणं । न चानवस्थानादित्वात्संसारस्य प्रस्तुतन्यायविरोधस्तु साक्षात् व्यवसायगम्यत्वं आसां जातीनां स्यात् । तासु स्मृतिलक्षणा यथास्मरणं भवितुमर्हति । यथा वा वसिष्ठादयः शब्दा अन्तरेणैवाद्यत्वं धर्ममनवच्छिन्न१ ख-न्धि । २ गौतम धर्मसू० ५।२० । ३ र-कश्चिदजातिविशेषासूर्यधर्मविधि- । ४ ख-विषयं । ५ अग्रे २४ श्लो. । ६ र-स । ७ र-तद्यक्तं । ८ र-विरोधः सप्तत्यक्षाव्यवासभेदत्वे ।
For Private And Personal Use Only