________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०२
मेधातिथिभाष्यसमलंकृता ।
[ दशमः
मुच्यते। दृश्यते लक्षणयाऽसत्यपि यज्ञसंयोगे पत्नीशब्दः प्रयुज्यमानो लोके । रजकस्य पत्नी यथाऽन्यत्रावरुद्धासु स्त्रीषु गृहिणीशब्दः सोऽपि भार्यावचन एव केनचिद्धर्मसाम्येन तत्रापि प्रयुज्यते । यद्यपि सति मुख्य लक्षणा न न्याय्या तथापि मन्दधियां सुहृद्भूत्वा आशङ्कामात्रं निवर्तयति । किंनाम नाशङ्कयते मूढमतिभिः । आनुलोम्यग्रहणमुत्तरार्थं येऽपि 'त एव त' इति पठन्ति तेषामपि स एवार्थस्तज्जातीया इति । अत्रोच्यते । किं प्रमाणमूलमेतत्स्मृतिकाराणां स्मरणमकार्यरूपत्वान्न धर्माधर्मोपदेशतुल्यं प्रमाणं तैरेव नास्तीत्युक्तं स्मृत्यन्तरमूलत्वेऽन्धपरंपराप्रसङ्गः प्रमाणश्लोकैर्दर्शितः । उच्यते । वृद्धव्यवहार एव मूलं साधुत्वस्मृतिवत् । ननु च पुरुषापराधाऽसावित्युक्तं । अत एव नियामकाः स्मृतयः फलवत्यः अभियुक्तस्मरणमन्यथेति न शक्यते वक्तुं । शास्त्रस्थाः प्रसिद्धाः प्रमाणतराः संभवति च तेषामनादिव्यवहारो मूलं एतत्स्मृतिसंस्कृतानां वावगताभिननजातीयानां प्रत्यक्षमभ्युपपद्यत इति केषांचिद्दर्शनं । एतत्स्मृतिविवेके प्रपंचितं । ननु च स्मृत्यन्तरे नायं विशेषोऽस्ति "सवर्णेभ्यः सवर्णामु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धना॥” इति । आयेनार्धेन जातिर्लक्ष्यते । उत्तरेण हि ब्राह्मादिविवाहनातानां संतानवचनत्वात्तत्र सवर्णेभ्यः
सवर्णास्विति नात्र पत्नीशब्दोऽस्ति कथं नास्ति यावता "विन्नास्वेष विधिः स्मृत" १५ इति मा वा भूत् अविशेषस्मृतेर्विशेषस्मृतिर्बलीयसी । अदर्शनादर्शनं बलीयो यत एकेन
विशेषो न दृष्टोऽपरेण दृष्ट इति संभवत्येतत् । अतोऽभियुक्तस्मरणं संभवन्मूलतया प्रमाणं । ननु चाव्याप्तेरलक्षणमेतत् । न हि सहोढकानीनपौनर्भवादीनामनेन ब्राह्मण्यं भवति । कुण्डगोलकयोः वा क्षेत्रजस्य च । अनभिप्रेतमेव तत्तेषामिति चेत् का तर्हि तेषां जातिः
कण्डगोलकयोश्च असति ब्राह्मण्ये श्राद्धे प्राप्त्यभावादनर्थको निषेधः स्यात् स्मृत्यन्तर२० विरोधश्च । (या०व०५० १३३) " सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः" इति । किं
यदेव लक्षणं तदेव लक्ष्यं । अनितिं लक्ष्यं भवति । नितिं लक्षणं । यथा को देवदत्त इति संशयेऽङ्गदी कुण्डली व्यूढोरस्को वृत्तबाहुः । इह तु यथा कश्चित् ब्रूयात्कः काक इत्युक्ते काकाज्जात इत्युत्तरं तादृगेव को ब्राह्मणो यो ब्राह्मणाज्जात इति । जनकेऽपि हि ब्राह्मण्य
मप्रसिद्धमेव न्यायविरोधश्च सजातीयात्सजातीयायां जातः स लोके सजातीयो भवति । २५ यथा गोर्गवि गौरश्वाटूडवायामश्वः । अत्रोच्यते । यत्तावदुक्तं का तेषां जातिरिति
किमन्यया जात्या मनुष्यास्तावद्भवन्ति पुरुषधआश्चाधिक्रियते अनुपात्तजातिविशेषैः पुत्रत्वाच्छ्राद्धादिभिश्च दोने च सर्वेषामधिकारः । ननु च विशेषस्योपदेशेन विना व्यवहारो न सिध्यति सर्वसाधारणत्वान्मनुष्यजातेः । असदेतत्सर्वस्यैव स्वसंज्ञाविशेषो विद्यते । प्रतिपुरुष
१र-अन्य । २ र-फलम् । ३ या. व. आचारे ९०।४र-प्रतिषेधः । ५र-आदाने ।
For Private And Personal Use Only