________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
८०१
तत्सन्निधौ श्रवणात्तत्र कृतार्थे नान्यत्र भवितुमर्हति । अत एवाशङ्कामात्रमित्युक्तं । परमार्थतस्तु व्यवहारनियमार्थमयं श्लोकः ॥ ४ ॥
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ॥ आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ।। ५ ॥
।
के पुनरमी ब्राह्मणादयो नाम न ह्येषां परस्परो भेदः शक्योऽवसातुं । व्यक्त्यधीनाधिगमा हि जातयो न च व्यक्तयः स्वावयवसन्निवेशविशेषावगमशून्याः शक्नुवन्ति तासां भेदमावेदयितुं । न च ब्राह्मणक्षत्रियादीनां गवाश्वस्येव वाऽऽकार मेदोऽस्ति । येन रूपिसमवायाच्चाक्षुष्यः स्युः । नापि विलीनघृततैलगन्धरसादिभेदेन क्रियान्तरगोचराः । नापि शौचाचार पिङ्गलकेशत्वादिभिर्धर्मे शक्यं भेदावसानास्तेषां सर्वत्र संकरोपलब्धेः । व्यवहारश्च पुरुषाधीनो विप्रलंभभूयिष्ठत्वाच्च पुरुषाणां नान्ततो वस्तुसिद्धिरित्यतो जातिलक्षणमुच्यते । १० सर्ववर्णेष्वेतल्लक्षणं जातेर्यत्तुल्यासु समानजातीयासु भर्तृसंभूतासु पत्नीबूढासु जातास्त एव जात्या ज्ञेयाः । प्रायेण मातापित्रोर्या जातिः सैवापत्यस्योढायां जातस्य वेदितव्या । संबन्धिशब्दत्वात्पत्नीग्रहणास्याश्रुतोपि वोढा पिता लभ्यते । तेन येनैवोढा तत एव यस्तस्यामेव जातस्तदा तज्जातीयो भवति । अक्षतयोनिग्रहणं पुनर्विवाहसंस्कारेण पत्नीत्वमाशङ्कमानं निवर्तयति । सहोढकानीनमातॄणां च । ननु च नैवैतासां विवाह- ११ संस्कारोऽस्ति " पाणिग्रहणिका मन्त्राः कन्यासु " इति वचनात् । यद्यपि " वोढुः स गर्भो भवति" इति विवाहश्रवणेन शास्त्रीयसंस्कारप्रतिपत्तिः प्राप्तिमात्रवचनत्वात्तस्य न विहितवचनीयं प्रत्यभिज्ञानमस्ति तस्मात्स्वीकारमात्रे धातुर्वर्तते स्वीकर्तुरित्यर्थः । पित्रादीन् वंचयित्वा येनैव स्वीकृता तस्यैव सा भवति ततः पुत्रश्चेति तस्यार्थः । पुनर्भूसंस्काराभावात् " सा चेदक्षतयोनिः स्यात् ” इति पठ्यते । गतप्रत्यागतायामपि पुनः पुनः शब्दप्रत्यभि - २० ज्ञानाद्धेतुरुक्तः । न च ताभिः सहाभिः सहाधिकारोऽस्ति । यज्ञसंयोगेऽस्ति पत्नीशब्दः । अतोऽक्षतयोनिशब्दोऽतिरिच्यते । अत्र पूर्वे पत्नीशब्दपर्यायेन नारीष्विति पठन्ति । तदपि न किंचित् । केवले ह्यक्षतयोनिशब्दे त्वसंस्कृतास्वपि जातास्तज्जायाः स्युः । पत्नीशब्दपाठेन शास्त्रीयेण विधिना या संस्कृता भार्यात्वमापादिता सा गृह्यते । यास्तु कुमार्य एवोपगम्यन्ते भवन्ति ता अक्षतयोनयो न तु पत्न्यः । तस्मादक्षतयोनिशब्दस्य प्रयोजनवाच्यं उच्यते । २५ यत्तावदुक्तं न ताः पत्न्यो यज्ञसंयोगाभावादिति । यदि विवाह्येरन् स एव यज्ञः स्यात्तत्रापि पूपवरुणार्यम्णामस्त्येव यागः । समानार्थी च यागयज्ञशब्दौ तस्मात्स्युरेव पत्न्यः । अकन्यात्वादधिवाह्यतयैव न पत्न्य इति युक्तं । अतश्चानर्थक्येऽक्षतयोनिशब्दस्य प्रयोजन
१ ख- अन्यतो । २ ख -स्वतेमवोढा पिता लभ्यते । ३ अ. ८।२२६ । ४ अ. ९।१७३ । ५ ख-यां । ६ भ. ९।१७६ । ७ ख - गो ।
१०१
For Private And Personal Use Only