SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ दशमः सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि ॥ प्रबेयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ २॥ 'न चास्योपदिशेद्धर्मम् ' इति न कश्चिद्धमोपदेशः शूद्रस्य कर्तव्य इत्युक्तं । वृत्तिधर्मा उपदेष्टव्या इति तस्यापवादः । वृत्तिः शरीरकुटुम्बास्थितिस्तदर्था उपायास्तान ५ विद्यात् । प्रब्रूयात्सर्वेभ्य इतरेभ्य इति बहुवचनं शूद्रावरोधार्थ स्वयं च तथा भवेद्यथोपदिष्टा वृत्तिनियमा अनुष्ठेया इत्यर्थः ॥ २ ॥ वैशेष्यात्प्रकृतिश्रेष्ठयात्रियमस्य च धारणात् । संस्कारस्य विशेषाञ्च वर्णानां ब्राह्मणः प्रभुः ॥३॥ किं पुनः कारणं ब्राह्मण एव प्रकृतत्वेनाऽधिक्रियते । न पुनः क्षत्रियादयोऽपि । १० यत एतच्छेषतया प्ररोचनं पठति । वैशेष्याद्विशिष्टत्वादित्यर्थः । गुणाधिक्यादिति यावत् । तदिदानीमाधिक्यमाह । प्रकृतिश्रेष्ठयादुत्तमाङ्गोद्भवादिदमुक्तं । प्रकृतिः कारणं नियमस्य च धारणान्मद्यपानप्रतिषेधादयमेव नियमोऽभिप्रेतः स्नातकत्रतानि वा वैणवधारणादीनि ब्राह्मणस्यैव संस्कारस्य च विशेषो त्दृदयङ्गमाभिरित्यादि ग्राम एव नियमोऽमि प्रेतः । स्नातकव्रतानि च विशेषो त्वदयङ्गमाभिरित्यादेरुपनयनादेर्वा बालस्यैव विधानात् १५ क्षत्रियवैश्ययोस्त्वतीतशैशवयोरेकादशद्वादशतोऽतो हेतोवर्णानां ब्राह्मणः प्रभुः शासिता ॥ ३॥ के पुनरपी वर्णा नाम मनुष्यजातिवचनो वर्णशब्दो नेत्याह ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः॥ चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ ४ ॥ चत्वारो वर्णा ब्राह्मांद्याः शूद्रपर्यन्ताः । अन्ये तु बर्बरकैवर्तादयः संकीर्णयोनयो यथा वक्ष्यन्ते । तत्र चतुर्णी त्रयो द्विजातय उपनयनस्य तेषां विहितत्वात् । एकजातिः शूद्रो न हि तस्योपनयनमस्ति । उपनयनविधौ ब्राह्मणादिवर्णविशेषसंयोगात् । " अष्टमे ब्राह्मणमुपनयीतैकादशे राजन्यं द्वादशे वैश्यम् " इति । न कस्मिंश्चित्काले शूद्रं पठन्ति । ननु कालविशेषानुपादानादनियतकालं शूद्रोपनयनमस्तु । भवेद्यद्यसंयुक्ता सामान्येनोप२५ नयनस्यात्पत्तिः । स्यादेव स्ववर्णकालविशेषयुक्तो निमित्तार्थः । स्तुतयः स्युः । न तु गृथगुत्पत्तिरस्यास्ति । तत्कस्य प्रमाणस्य सामर्थेनास्योपनयनमनियतकालं क्रियतां । यद्येवं किं तबनेन चतुर्थ एकजातिरिति । सत्यं आशङ्कामात्रनिवारणार्थ मन्त्रवनै तदुच्यत इति । अमन्त्रकस्य नियतकालस्य प्राप्तिराशङ्कयते । मनु च पाकयज्ञविधावेतद्वाक्यः १र-इयमाभिः । २ र-दयः । ३ आश्वलायमीये गृह्यसूत्रे १।१९१, ३, ४, For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy