________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
॥ श्रीगणेशायनमः॥
॥ अथ दशमोऽध्यायः प्रारभ्यते ॥
अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः॥
प्रब्रूयादाह्मणस्त्वेषां नेतराविति निश्चयः ॥१॥ "वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति ग्रहणार्थं त्रैवर्णिकानां स्वाध्यायविधिरुक्तो गृहीतस्य वेदस्य वा विस्मरणमप्युक्तं सर्वाश्रमिणां स्वाध्याये नित्ययुक्तः स्यात्तथा " नित्यं शास्त्राण्यवेक्षेत " शास्त्रं प्रमुख्यया वृत्त्यैव शासनाद्धि शास्त्रं प्रमाणान्तरानवगतविधिप्रतिपादनाच्च वेद एवेति तदेव शास्त्रमन्यत्रग्रन्थसंदर्भसामान्याच्छास्त्रशब्दप्रयोगः । तथा नियतो वेदमभ्यसेत् । ब्रह्मोइझता वेदनिदेति । यस्तु ब्रह्मयज्ञः स एकेनापि सूक्तेन साम्नानुवाकेन खण्डेन काण्डिकया वैकयैव यावज्जीवमधीतया सिध्यति न तेन ब्रह्मस्मरणमाक्षिप्यते । तदेवं निर्विषयत्वादस्य विधेरैनुवादार्थलैव प्रब्रूयाद्राह्मणस्तेषां नेत राविति । क्षत्रियवैश्ययोः प्रवचनं निवर्तयितुम् ।
ननु च " अध्यापनं ब्राह्मणस्य ” इत्यादिना तयोस्तदप्राप्तमेव । नैष दोषः । वृत्तिकरणस्याश्रुतत्वात्तदर्थैव निवृत्तिः संभाव्यते। धर्मार्थ तु विद्यादानं तयोरप्यस्त्येवेत्याशङ्का निवर्तयति । अथास्ति सामान्येन निषेधः । एवं तर्हि ज्ञातिलक्षणप्रसङ्गजननाथै सिद्धमेवोच्यते। एवं च कृत्वाऽनुक्रमणीयः संबन्धो न हातव्योऽयमिति भविष्यति । वैश्यशूद्रोपचार च " संकीर्णानां च संभव" इति कश्चिदाह । अध्यापनं शब्दोच्चारणशिक्षणं । १५ प्रवचनं तु तदर्थ व्याख्यानमपि । अतो भिन्नत्वान्नाध्यापननिवृत्त्या तदर्थव्याख्याननिवृत्ति र्भवतीत्यतः पुनरुपदेशः।
ननु च नात्र वेदशब्दोऽस्ति । कुतस्तत्कर्मता । अध्ययनक्रिययाऽथ लौकिकगद्यपद्यविषयमपीदमध्ययनर्मुच्यते । तथा सत्यदृष्टार्थो विधिः स्यात् । यतश्चाधिकारकल्पना प्रसज्यत मूलकल्पना च स्यात् तथा तु व्याख्यातं । उपलब्धमूलैवेयं स्मृतिर्भवतीति २० नादृष्टमूलकल्पनाप्रसङ्गः । द्विजातय होत सिद्ध त्रयो वर्णा इति षादपूरणमेवं स्वकर्मस्था इति ॥ १॥
१र-विधि । २र-+उच्यते।
For Private And Personal Use Only